________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
णादंसणिस्स नाणं नाणेन विणा न हुँति चरणगुणा । अगुणिस्स नत्थि मुक्रवो, नत्थि अम्मुक्रवस्स निव्वाणं ॥ १० नाणेण जाणई भावे, सम्मत्तेण य सदहे । चरितेण निगिण्हाई, तवेण परिमुज्झई ॥११॥ उ. अ. २८, श्लो. ३०३५
३३ श्रावक धर्म
जिनो देवः कृपा धर्मो गुरवो यत्र साधवः । श्रावकत्वाय कस्तस्मै न श्लाघेताऽमूढधीः ॥ १ ॥ यो श्लो. १४० सावद्ययोगविरतिश्चारित्रं मुक्तिकारणम् । सर्वात्मना यतीन्द्राणां देशतः स्यादगारिणाम् || २ || (योगशास्त्र) देशचारित्रविरतो विरतानामुपासकः । भवस्वरुपं जानानः श्रावको जीवितावधिः ॥ ३ ॥ श्रद्धालुतां श्राति जिनेन्द्रशासने, धनानि क्षेत्रेषु वपत्यनारतम् ।
करोति पुण्यानि सुसाधुसेवनादतोऽपि तं श्रावकमाहुरुत्तमाः ॥ ४ ॥ सूक्तामुक्तावली पृ० ४५ देवपूजा गुरुपास्तिः स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां पट् कर्माणि दिने दिने ॥९॥ सूक्तमुक्तावली स्थूलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जितः सततम् दिग्व्रतमूर्ध्व - (मिह १) देशावकाशिकमनर्थविरतिं च ॥ १० ॥ सामायिकं च कृत्वा पौषधमुपभोगपारिमाणं च । न्यायागतं च कल्प्यं विधिवत्पात्रेषु विनियोज्यम् ॥ ११ ॥ चैत्यायतनप्रस्थापनानि च कृत्वा शक्तितः प्रयतः पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्याः ॥ १२ ॥ प्रशमरतिनित्यतृषितो जिनगुरुसाधुजनवन्दनाभिरतः । संलेखनां च काले योगेनाराध्य सुविशुद्धाम् ।। १३ ।। सद्भिर्गुणदोषज्ञैर्दोषानुत्सृज्य गुणलबा ग्राह्याः सर्वात्मना च सततं प्रशमसुखायैव यतितव्यम् ||१४|| प्रशमरतिप्रकरणात्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir