________________
Shri Mahavir Jain Aradhana Kendra
*************
www.kobahrth.org
मात्रा स्वादुहित्रा वा न विविकासनो भवेत् । वलवानिन्द्रियग्रामो, विद्वांसमपि कर्षति ॥ ६ ॥ मनु० अ० २, सो. २१५ कुण्डले नाभिजानामि, नाभिजानामि कङ्कणे। नू पुरे त्वभिजानामि नित्यं पादाब्जवन्दनात् ॥७॥ पद्मपुराण० स्नानमुद्वर्तनाभ्यङ्ग, नख- केशादिसत्क्रियाम् । गन्ध-माल्यं प्रदीपं च त्यजन्ति ब्रह्मचारिणः ||८|| श्र० पृ० पृ० ३ यः स्वदारेषु सन्तुष्टः परदारपराङ्मुखः । स गृही ब्रह्मचरित्वाद्, यतिकल्पः पकल्पते ||९|| कुमारपाल पत्र ८४ एकरात्र्युषितस्यापि, या गतिर्ब्रह्मचारिणः । न सा क्रतुसहस्रेण, वक्तुं शक्या युधिष्ठिर ! ॥१०॥ योगवासिष्ठ श्लो. २९ प्राणभृतं चरित्रस्य, परत्रमैककारणम् । समाचरन् ब्रह्मचर्य, पूजितैरपि पूज्यते ॥ ११॥ योगशास्त्र द्वि. श्लोक १०४ चिरायुषः सुसंस्थानाः, दृढसंहनना नराः । तेजस्विनो महावीर्याः भवेयुर्ब्रह्मचर्यतः ॥ १२ ॥ योगशास्त्र द्वि. श्लो० १०५ देवदानवगन्धव्वा जक्खरक्खसकिन्नरा । वम्भयारिं नमसन्ति दुकरं जे करन्ति तं ॥ १३ ॥ उ० षो० गा० १६
२५ ब्रह्मचर्य - ( मैथुनम् )
यो नियन्त्रसमुत्पन्नाः, सुसूक्ष्मा जन्तुराशयः । पीड्यमाना विपद्यन्ते यत्र तन्मैथुनं त्यजेत् ॥ १॥ योगशास्त्र द्वि. श्लो० ७९ रम्यमापातमात्रे यत्, परिणामेऽतिदारुणम् । किंपोकफलसंकाशं तत् कः सेवेत मैथुनम् ॥२॥ त्रि० पर्व स. ३ श्लो. ७७ कम्पः स्वेदः श्रमो मूर्च्छा, भ्रमिग्लनिर्बलक्षयः । राजयक्ष्मादिरोगाश्च भवेयुर्मैथुनोत्थिताः || ३ ||
त्रि पर्व १, सर्ग ३, श्लोक ७८
मेहुणसन्नारूढो, नवलक्खं हणेह सुहुमजीवाणं । तित्थयरेण भणियं, सद्दहियन्त्रं पयतेणं ॥ ४ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir