________________
楽楽楽挙※※禁※※※※※※※※※楽楽家が
१६ हिंसा पश्चेन्द्रियाणि त्रिविधं बलं च उचश्वासनिःश्वासमथान्यदायुः। प्राणा दशेते भगवद्भिक्तास्तेषां वियोगीकरणं तु हिंसा ॥१॥ उ. प्रा. स्त. ५व्या. ६४ आत्मवत्सर्वभूतेषु, सुखदुःखे प्रियाप्रिये । चिन्तयन्नात्मनोऽनिष्टा हिंसामन्यस्य नाचरेत् ॥२॥ यो. द्वि. प्र. "लो.२० । दमो देव-गुरुपास्ति-निमध्ययनं तपः। सर्वमप्येतदफलं, हिंसां चेन परित्यजेत् ॥३॥ यो. द्वि. प्र. लो. ३१ अन्धे तमसि मजामा, पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मों, न भूतो न भविष्यति ॥ ४॥ पू. श्लो.८३ अनुमन्ता विशसिता, निहन्ता क्रयविक्रयी। संस्कर्सा चोपहर्ता च, खादकवेति घातकाः ॥ ५॥ यो..प्र. लो,२१/ पगु-कुष्ठि-कुणित्वादि, दृष्ट्वा हिंसाफलं सुधीः। निरागस्वसजन्तूना, हिंसां संकल्पतस्त्यजेत् ॥६॥ त्रि.प.१ स.३ श्लो६२९
१७ मांसत्यागः सद्यः संमूछितानन्तजन्तुसन्तानदूषितम् । नरकाध्वनि पाथेयं, कोऽश्नीयात् पिशितं सुधीः ॥१॥ यो. उ. प्र. लो.३३ | मां स भक्षयिताऽमुत्र, यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः ॥२।म. अ. ५, ग्लो. ५५ मांसादनात्प्रणश्यन्ति, देहश्रीः सुमतिः सुखम् । शौचं सत्यं यशः पुण्यं, श्रद्धा-विश्वास-सद्गतिः ॥३॥ हिं. मा. श्लो.१ तिल-सर्षपमात्रं तु, मांसं यो भक्षयेन्नरः । स एव नरकं याति यावचन्द्र-दिवाकरौ ॥४॥ म. शां. अ. १४ श्लो.३१ मांसाशिनश्च दृश्यन्ते, रोगार्चा भृशदुर्बलाः । अमांसादा नीरोगाच, बलवन्तः सुखान्विताः ॥५॥ इ. स. अ.२७ ग्लो.१०
80************************
For Private And Personal use only