________________
Shi Mahavir Jain Aradhana Kendra
जैन मुक्त ० ॥१२॥
***ॐॐॐॐॐॐ
www.kobatirth.org
निर्विकारं निराबाधं ज्ञानसारमुपेयुषाम् । विनिवृत्तपराशानां मोक्षोऽत्रैव महात्मनाम् ॥ ६ ॥ सावद्ययोग विरतो, गौरवत्रयवर्जितः । त्रिगुप्तः पञ्चसमितो, रागद्वेषविनाकृतः ॥ ७ ॥ निर्ममो नगरवसत्यं गोपकरणादिषु । ततोऽष्टादशशीलांगसहस्त्रधारणो दुरः ॥ ८ ॥
निरन्तरं यथाशक्ति, नानाविधतपः परः । संयमं सप्तदशधा धारयन्न पिखण्डितम् ॥ ९ ॥ सुभाषितसंग्रहात् निरीहा निरहङ्कारा, निर्ममाः समचेतसः । महाव्रतधरा धीराः साधवः शरणं मम ॥१०॥ त्रिषष्ठी पर्व १० श्लो. ३९७ न यस्य मित्रं न च कोऽपि शत्रु-निजः परो वाऽपि न कथनास्ते ।
न चेंद्रियार्थेषु रमेत चेतः, कषायमुक्तं परमः स योगी ॥ ११ ॥ अ. कल्पद्रुम, अधिकार १, लो० ९
समः शत्रौ च मित्रे च, तथा मानापमानयोः । शीतोष्णसुखदुःखेषु, समः सङ्गविवर्जितः ॥ १२॥ म. अ. १३ श्लो. १४ दुःखेष्वनुद्विग्रमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ १३ ॥ भ. अ. २ श्लो. ५६ जीवितं यस्य धर्मार्थ, धर्मो ज्ञानार्थमेव च । ज्ञानं च ध्यानयोगार्थे, सोऽचिरान्मुच्यते नरः ॥ १४ ॥ यति श्लो. ११ आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला, रागग्राहवती वितर्कविहगा धैर्यद्रमध्वंसिनी । मोहावर्तदुराऽतिगहना प्रोत्तुङ्गचिन्तातटी, तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥ १५ ॥ वै श्लो. १० बांधव धनेन्द्रियसुखत्यागात् त्यक्तभयविग्रहः साधुः । त्यक्तात्मा निर्ग्रन्थस्त्यक्ता हंकारममकारः ॥ १६ ॥ प्र श्लो. १७३ अहंकारं बलं दर्प, कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ १७॥ भ. अ. १८ श्लो. ५३
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र ८
॥ १२॥