________________
Acharya Sh Kailasagers
Gyanmandit
जैन रतन
धर्म ५
980-890-9-2-90-908222-232-28-28-898998-8-04
शुभोपदेशदातारो, वयोवृद्धा बहुश्रुताः । कुशला धर्मशाखेषु, पर्युपास्या मुहुर्मुहुः ॥७॥ अभ्युत्थानादियोगश्च, तदन्ते निभृतासनम् । नामग्रहश्च नास्थाने, नावर्णश्रवण क्वचित् ॥ ८॥ अक्षरस्यापि चैकस्य, पदार्धस्य पदस्य च । दातारं विस्मरन् पापी, किं पुनर्धर्मदेशिनम् ॥९॥ उ० भाग १,पृ० १७८ उपदेशः शुभो नित्यं दर्शन धर्मचारिणाम् । स्थाने विनय इत्येतत्साधुसेवाफल महत् ॥१०॥ धर्मबन्धु पृ०५३ विदलयति कुबो वोधयत्यागमाथै, सुगतिकुगतिमागौं पुण्यापे व्यनक्ति । अवगमयति कृत्याकृत्यमेदं गुरुयों, भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥ ११॥ पूर्व वीरजिनेश्वरेऽपि भगवत्यारन्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तु क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्ता जीवरक्षा व्यधात्, पीत्वा यस्य वचः सुर्धा स परमः श्री हेमसरिर्गुरुः ॥१२॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ १३ ॥
धर्म ५
स धर्मो यो दयायुक्तः, सर्वप्राणिहितप्रदः । स एवोचारणे शक्तो भवाम्मोधेः सुदुस्तरात् ॥१॥ तत्वामृत, ग्लो ६५ बचः सत्यं गुरौ भक्तिः, शक्त्या दानं दया दमः। अधर्मः पुनरेतस्माद्विपरीतोऽसुखावहः ॥२॥ पृ० ४ (प्र.स.)
For Private And Personal use only