________________
Shn Mahavir Jain Aradhana Kendra
****************************
www.kobatirth.org.
निस्सग्गुवएसरुई आणरुई सुत्तबीअरुईमेव । अभिगमवित्थाररुई किरियासंखेवधम्मरुई || ६५ ॥ यस्यास्ति देवो हृदि मोहजेता, गुरुश्च पञ्चेन्द्रियवैरिजैत्रः । धर्मश्च दुष्कर्मजयैकतानः, स एव युद्धेऽपि जयं लभेत ॥ ६६ ॥ संमत्तं सामाइयं संतोसो संजमो अ सज्झायें। पंच सयारा जस्स न पयारो तस्स संसारे ॥ ६७ ॥ गुणानामेक आधारो, रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य, सम्यक्त्वं श्लाध्यते न कैः ॥ ६८ ॥
दानानि शीलानि तपांसि पूजा, सत्तीर्थयात्रा प्रवरा दया च। सुश्रावकत्वं व्रतपालनं च, सम्यक्त्वपूर्वाणि महाफलानि ॥ ६९ ॥ सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्वमित्रान परं हि मित्रम् ।
सम्यक्त्वबन्धोर्न परो हि बन्धुः, सम्यक्त्वलाभान्न परो हि लाभः ॥ ७० ॥
आरंमे नत्थि दया महिलासंगेण नासए मं । संकाए सम्मत्तं पव्वज्जा अत्थगणेण ॥ ७१ ॥ जं सकइ त कीरई जं न सकछ तयंमि सद्दहणा । सद्दहमाणो जीवो वच्चइ अयरामरं ठाणं ॥ ७२ ॥ सम्यक्त्वसहिता एव शुद्धा दानादिकाः क्रियाः । तासां मोक्षफले शोक्ता, यदस्य सहकारिता ॥ ७३ ॥ कुर्वन्निवृत्तिमप्येवं, कामभोगांस्त्यजन्नपि दुःखस्योरो ददानोऽपि, मिथ्यादृष्टिर्न सिध्यति ॥ ७४ ॥ कनीनिव नेत्रस्य, कुसुमस्यैव सौरभम् । सम्यक्त्वमुच्यते सारः, सर्वेषां धर्मकर्मणाम् ॥ ७५ ॥ तत्वश्रद्धानमेतच्च, गदितं जिनशासने । सर्वे जीवा न हन्तव्याः, सूत्रे तत्त्वमितीयते ॥ ७६ ॥ अथवेदं यथा त्वमात्रयैव तथाऽखिलम् । नवानामपि तत्त्वाना - मिति श्रद्धोदितार्थतः ॥ ७७ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
***********