________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
हृदयस्य विभूषणम् । १४२ विनाश्रयं न शोभन्ते, पंडिता वनिता लताः । १४३ जिह्वाग्रे मित्रबान्धवाः । १४४ लक्ष्मीर्वसति वाणिज्ये । १४५ प्रत्यक्षे गुरवः स्तुत्याः । १४६ सर्वनाशे समुत्पन्न, ह्यधं त्यजति पंडितः । १४७ परेंयितज्ञानफला हि बुद्धयः । १४८ छिद्रेष्वर्था बहुलीभवन्ति । १४९ जयति जगति नादः पंचमश्चोपवेदः । १५० शूचिर्भूमिगतं तोयं, शूचिर्नारी पतिव्रता । १५१ आत्मनः प्रतिकूलानि परेषां न समाचरेत् । १५२ दृष्टिपूतं न्यसेत्पादं । १५३ पापी पापेन पच्यते । १५४ नवं नवं प्रीतिकरं नराणाम् । १५५ नवनवगुणरागी, प्रायशः सर्वलोकः । १५६ न हि सर्वत्र पांडित्यं सुलभं पुरुषे क्वचित् । १५७ बहुभिर्न विरोद्धव्यं । १५८ आत्मा तु पात्रतां नेयः, पात्रमायान्ति संपदः । १५९ बालादपि हितं ग्राह्यम् । १६० अधः कूपस्य खनक, ऊर्ध्व प्रासादकारकः । १६१ देशमाख्याति भाषणम् । १६२ विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च । १६३ न तत्र धनिनो यान्ति, यत्र यान्ति बहुश्रुताः । १६४ याचना गतगौरखा । १६५ भिन्ने चित्ते कुतः प्रीतिः । १६६ व्यसनानंतरं सौख्यं स्वल्पमप्यधिकं भवेत् । १६७ आजन्म उन्मज्जति दुग्धसिन्धौ तथापि काकः किल कृष्ण एव । १६८ कुरुपता शीलतया विराजते । १६९ कुभोजनं चोष्णतया विराजते । १७० अविवेकः परमापदां पदम् । १७१ गुणलुब्धाः स्वयमेव संपदः । १७२ मौनेन कलहो नास्ति, न भयं चास्ति जाग्रतः । १७३ धनं प्राणहरं त्यजेत् ॥ १७४ चिंता जरा मनुष्याणां । १७५ कृशे कस्यास्ति सौहृदम् । १७६ अव्यवस्थितचित्तस्य, प्रसादोऽपि भयंकरः । १७७ ऋणं कृत्वा घृतं पिबेत् । (चार्चाकसिद्धांत ) १७८ पंडितैः सह मित्रत्वं कुर्वाणो नावसीदति । १७९ अगुणस्य हृतं रूपं । १८० सद्यः प्रीतिकरो नादः । १८१ ऋणकर्ता पिता शत्रुः पुत्रः शत्रुरपंडितः । १८२ नास्ति क्रोधसमो वह्निः । १८३ तस्य तदेव हि मधुरं यस्य मनो यत्र संलनम् । १८४ नीचो वदति न कुरुते, वदति न साधुः करोत्येव । १८५ बीजेनैव भवेद् बीजं, प्रदीपेन प्रदीपकः । १८६ यादृशी
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir