________________
Shi Mahavir Jain Aradhana Kendra
जैन वक्त० ॥ १ ॥
www.kobatirth.org.
वीरात्तीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो, वीरे श्रीधृतिकीर्तिकान्तिनिचयः श्रीवीर ! भद्रं दिश ॥ ४ ॥ अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्व सिद्धिस्थिताः, आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः । श्री सिद्धान्तपाठका मुनिवरा रत्नत्रयाराधकाः, पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ५ ॥
सम्यग्दर्शनम् १
या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते ॥ १ ॥ योग० प्र० २ श्लो० २ रुचिर्जिनोक्ततच्चेषु, सम्यक् श्रद्धानमुच्यते । जायते तन्निसर्गेण गुरोरधिगमेन वा ॥२॥ योग० पृ० ३८ श्लो० १७ (प्र.स.) मैः शाम्यति क्रोवादनपकारे महत्यपि । लक्ष्यते तेन सम्यक्त्वं तदाद्यं लक्षणं भवेत् ॥ ३ ॥ उ० भा० १५०८५ मानुष्यकर्मभूम्यार्यदेशकुलकल्पताऽऽयुरुपलब्धौ । श्रद्धा कथकश्रवणेषु सत्स्वपि सुदुर्लभा बोधिः ॥ ४ ॥ प्र० श्लो० १६२ मानुष्यमार्यदेशश्च, जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र, कथञ्चित् कर्मलाघवात् ॥ ५ ॥ प्राप्तेषु पुण्यतः श्रद्धा कथक - श्रवणेष्वपि । तत्त्वनिश्चयरूपं तद्, बोधिरलं सुदुर्लभम् ॥६॥ योग० प्र० ४ श्लो० १०८,१०९ सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्वमित्रान्न परं हि मित्रम् ।
सम्यक्त्वन्धोर्न परो हि बन्धुः, सम्यक्त्वलाभान्न परो हि लाभः ॥ ७ ॥ सुक्तमुक्तावलि अधिकार ५५ श्लो० ८ गुणानामेक आधारो रत्नानामिव सागरः । पात्रं चारित्र वित्तस्य, सम्यक्त्वं श्लाध्यते न कैः १ ॥८॥ सु० अ० ५५ श्लो० २ बरं नरकवासोऽपि, सम्यक्त्वेन समायुतः । न तु सम्यक्त्वहीनस्य, निवासो दिवि राजते ॥ ९ ॥ त० लो० ४
For Private And Personal Use Only
charya Shn Kailassagarsuri Gyanmandir
****************936986080808898
सम्यग् दर्शनम्
॥ १ ॥