________________
जेनमुक्त ॥६३॥
सुभाषित लखंडानि
828888888888888888888881
सुभाषितरत्नखंडानि १ सा विद्या या विमुक्तये । २ वचने का दरिद्रता ? ३ वचनेऽपि दरिद्रत्वं, धनाशा तत्र कीदृशी ? ४ विद्याधनं सर्वधनप्रधानम् । ५ विद्या गुरूणां गुरुः । ६ निरस्तपादपे देशे, एरंडोपि मायते । ७ न हि वंध्या विजानाति, गुर्वी प्रसववेदनाम् । ८ स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते । ९ पयपानं भुजंगाना, केवलं विषवर्धनम् । १० न मूर्खजनसंपर्कः सुरेन्द्रभवनेष्वपि । ११ गुणी च गुणरागी च, विरला सरलो जनः । १२ संपत्तौ च विपत्तौ च, महतामेकरूपता । १३ स्पर्धापि विदुषा युक्ता, न युक्ता मूर्खमित्रता । १४ नहि स्वदेहशैत्याय जायन्ते चंदनद्रुमाः । १५ नहि संहरते ज्योत्स्ना, चन्द्रश्चांडालवेश्मनि । १६ छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य । १७ परोपकाराय सतां विभूतयः । १८ प्रारभ्य चोत्तमजना न परित्यजन्ति। १९ सौ दशति कालेन, दुर्जनस्तु पदे पदे । २० शशिना तुल्यवंशोऽपि, निर्धनः परिभृयते । २१ अर्थों हि लोके पुरुषस्य बन्धुः । २२ मुखे च कटुता नित्यं, धनिनां वरिणामिव । २३ रिक्ता भवन्ति भरिता मरिताश्च रिक्ताः । २४ दारिद्यादधिक दुःखं, न भूतं न भविष्यति । २५ दारिद्यमेकं गुणकोटिहारि।२६ लोभाविष्टो नरो.हन्ति, स्वामिनं वा सहोदरम् । २७ लोमेन बुद्धिश्चलति । २८ हतमपि च हत्येव मदनः। २९ कंदर्पदर्पदलने विरला मनुष्याः । ३० उदारचरितानां तु वसुधैव कुटुम्बकम् । ३१ शुष्केपि हि नदीमार्गे रवन्यते सलिलार्थिभिः । ३२ दात्याचकयोर्भेदः कराभ्यामेव सूचितः । ३३ परोपकारः पुन्याय पापाय परपीडनम् । ३४ आकृतिगुणान् कथयति । ३५ क्षमा वीरस्य भूषणम् । ३६ यतो धर्मस्ततो जयः । ३७ काला सुप्तेषु जागर्ति । ३८ कामातुराणां न भयं न लजा। ३९ चिंतातुराणां न मुर्ख न निद्रा । ४० नंदस्तुष्टो इस्ततालीं ददाति । ४१
3888888888888888-8-8-0-0-8001
॥६३॥
For Private And Personal use only