________________
ShriMahavirain ApartmenaKendra
Acharya Sh Kailasagar
Gyanmandi
जेन सूक्त ॥५८॥
विंशति स्थानकानि
198-982882********
अर्थस्य मूलं प्रियवाक् क्षमा च, कामस्य शक्तिं च वपुर्वयश्च । धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वार्थनिवृत्तिरेव ॥६॥ खण्डनी पेषणी चुल्ली, जलकुम्मः प्रमार्जनी । पञ्चशूना गृहस्थस्य, बध्यते यास्तु वाहयन् ॥ ७॥ पोषं धर्मस्य धत्ते यत् , तद्भवेत् पौषधव्रतम् । आहारदेहसत्काराब्रह्मव्यापारवर्जनम् ।। ८॥ का, स०३० श्लो०७१४ वैराग्यहस्तिनः पीठे, समारोप्य स्वमानसम् । विवेकविनयायैर्हि, जीयात् क्रोधाद्यरीन बुधः॥९॥ ध० श्लो० ३३ मैत्रीप्रमोदकारुण्यमाध्यस्थ्याख्या महागुणाः । युक्तस्तैर्लभते मुक्ति, जीवोऽनन्तचतुष्टयम् ॥१०॥प्रा० स०६ श्लो.३८२ पीडयेन जरा यावद् व्याधिर्यावन्न बाधते । मृत्युर्धावति नो यावत् , तावद् धर्मो विधीयते ॥१२॥ पा. स०१ श्लो.७६९ वैराग्यशुद्धधर्मा, देवादिसत्तत्वविद्विरतिधारी । संवरवान् शुभवृत्तिः, साम्यरहस्य भज शितार्थिन् ॥१२॥ अ. श्लो. ४ बहूनामप्यसाराणां, समुदायो जयावहः । तृणैः संजायते रज्जुर्बद्धयन्ते येन दन्तिनः ॥ १३ ॥ संहतिः श्रेयसी पुंसां, स्वपक्षे तु विशेषतः । तुषैरपि परिभ्रष्टाः, न प्ररोहन्ति तण्डुलाः॥ १४ ॥ सू० पृ० २१ दुषणं मतिरुपैति नौत्तमी, माध्यमी स्पृशति भाषते न च । वीक्ष्य पार्श्वमथ भाषतेऽधमो, रारटीति सहसाऽधमाधमः||१५|| शास्त्रं बोधाय दानाय, धनं धर्माय जीवितम् । वपुः परोपकाराय, धारयन्ति मनीषिणः ॥ १६ ॥ सू० पृ० ३० पिबन्ति नद्यः स्वयमेव नाम्भः स्वादन्ति न स्वादुफलानि वृक्षाः । पयोमुचां किं क्वचिदस्ति शस्य ?, परोपकाराय सतां विभूतितवः ॥ १७॥ सूक्तमुक्तावली पृ०३१ नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी । गुणी च गुणरागी च, विरलः सरलो जनः॥१८॥.पू. ३३ संधयेत्सरला सूची, वक्रा छेदाय कर्तरी । अतो विमुच्य वक्रत्व, गुणानेव समाश्रय ॥ १९ ॥
For Private And Personal Use Only
带张紧张张张张张张张张张张张泰泰泰泰泰泰张张张张
******%20-24
॥५८॥