________________
ShiMahayeJainrachanaKendra
www.kobathrtm.org
Acham Ka
mandi
根张黎黎黎黎黎黎黎黎黎黎黎黎黎聯燃燃燃魂
अलसो मन्दबुद्धिश्च, सुखितो व्याधितस्तथा । निद्रालुः कामुकश्चेति, षडेते शास्त्रवर्जिताः ॥४॥ सू. पृ० ३९ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशसुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूजिता न हि धनं विद्याविहीनः पशुः ॥५॥ जहा खरो' चंदणभारवाही, भारस्स भागी नहुचंदणस्स । एवं खु नाणी चरणेन हीणो, नाणस्स भागी न हु सुग्गईए ॥ ६ ॥ सूक्तमुक्तावली पृ० ४०
१०० पुण्यम् दाने शक्तिः श्रुते भक्तिर्गुरूपास्तिर्गुणे रतिः । दमे मतिर्दयावृत्तिः, षडमी सुकृताकुराः ॥११॥ सू० पृ.४१, श्लो.४४० जैनो धर्मः कुले जन्म, शुभ्रा कीर्तिः शुभा मतिः । गुणे रागः श्रियां त्यागः, पूर्वपुण्यैरवाप्यते ॥२।। सू० ग्लो. ४९१ जैनो धर्मः प्रकटविभवः सङ्गतिः साधुलोके, विद्वद्गोष्टिर्वचनपटुता कौशलं सक्रियासु ॥ साध्वी लक्ष्मीश्चरणकमलोपासनं सद्गुरुणां, शुद्धं शीलं सुमतिरमला प्राप्यते नाल्पफुष्यैः ॥३॥ सू० पृ. २, श्लो. ९
१०१ पापम् भवेयुः प्राणिनः पापात् , कासश्वासज्वरादयः । सखायोऽपि कदर्याश्च, नागश्रीवन्महीतले ॥१॥ हिं० पा० श्लो. १ हिंसाऽनृतादयः पञ्च, तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः ॥२॥
幾號聯發器端茶器茶器等茶器聯瓷器茶茶器帶醬蒸帶帶殘廢
For Private And Personal use only