________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संपादिताऽनेकमहर्द्धिको यः, संपादयामास मनोऽर्थितानि । नानाविधान्यक्षतलब्धियोगाच्चारित्रसाम्राज्यविभासितानाम्.
वसुन्धरा रत्नवती बभूव, यज्जन्मना शान्तिनिकेतनेन । प्रभाविनां हि प्रभवोऽत्रलोके,
लोकोपकाराय बुधैः प्रदिष्टः . यो भूरिभाग्योपचयेन भूमौ, विभूतिसारे वसुभूतिगेहे । क्रीडाविलासं विमलं विधातुमियेष धर्मप्रथनाऽभिलाषः .
सुराऽसुरेन्द्रस्पृहणीयशील,
आजन्मनः श्लाघ्यगुणाऽनुवादः । तत्त्वोपदेशेन समुद्धरन् यो, वृन्दं जनानां प्रवभौ नतानाम्..
प्रशासको दुर्नयमानवानां, निवारकोऽधर्ममतोद्यतानाम् । प्रभावको यो हि बभूव धर्मतत्त्वस्य भेत्ता भवबन्धनस्य.
यः पुण्डरीकाऽध्ययनं ततान, तेनैव संवोधयति स्म नम्रम् । तिर्यङमहाजृम्भकलोकपालं,
गुणाऽनुरक्तं गणभृद्वरेण्यः.
२७
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
।।८।।
।।९।।
।।१०।।
।।११।।
।।१२।।
।।१३।।