________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
....
।।१।।
(९) श्री जिनप्रभाचार्य विरचितं गौतमस्तोत्रम् स्वर्णाष्टाग्रसहस्रपत्रकमले पद्मासनस्थं मुनि स्फूर्जल्लब्धि विभूषितं गणधरं श्रीगौतमस्वामिनम् । देवेन्द्राधमरावलीविरचितो पास्तिं समस्ताद्भुतश्रीवासातिशयप्रभापरिगतं ध्यायामि योगीश्वरम्.....
किं दुग्धाम्बुधि-गर्भगौरसलिलै-श्चन्द्रौपलान्तर्दलैः? किं किं श्वेतसरोज पुञ्जरुचिभिः किं ब्रह्मरोचिः कणैः? किं शुक्लस्मित-पिण्डकैश्च घटिता किं केवलत्वामृतै
मूर्तिस्ते गणनाथ! गौतम! हृदि ध्यानाधिदेवि मम............ ।।२।। श्रीखण्डादिपदार्थसार्थकणिकां किं वर्तयित्वा सतां किं चेतांसि यशांसि किं गणभृतां निर्यास्य तद्वाक् सुधाम् । स्त्यानीकृत्य किमप्रमत्तकमुनेः सौख्यानि सञ्चूर्ण्य किं? मूर्तिस्ते विदधे मम स्मृतिपथाधिष्ठायिनी गौतम?.
नीरागस्य तपस्विनोऽभुत-सुखवाताद् गृहीत्वा दलं तस्याः स्वच्छेशमाम्बुधे रसभरं श्रीजैनमूर्तेर्महः तस्या एव हि रामणीयकगुणं सौभाग्य भाग्योद्भवं
मद्ध्यानाम्बुजहंसिका किमुकृता मूर्तिः प्रभो! निर्मला......... ।।४।। किं ध्यानानल गालितैः श्रुतदलै-राभासिसद्भावनाऽश्मेद् धृष्टैः किमु शीतलचन्दनरसै-रालेपि मूर्तिस्तव? सम्यग्दर्शन पारदैः किमु तपः शुद्धैः रशोधि प्रभो! मच्चित्ते दमिते जिनैः किमु शमेन्दु ग्रावतश्चाघटि...
किं विश्वोपकृतिक्षमोद्यममयी? किं पुण्यपेटीमयी? किं वात्सल्यमयी? किमुत्सवमयी पावित्र्य पिण्डीमयी?
...... ।।३।।
.... ||५||
१४
For Private And Personal Use Only