________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।।१०।।
||११।।
.।।१२।।
न रागवान्नो भजसेऽतिचारं नालम्बसे वक्रगतिं कदाचित् । पुरस्कृतेनोऽपि घनाय नासि
तथापि पृथ्वीतनयोऽसि रूढः.. प्रभो महावीरमुपास्य सम्यक्त्वयार्जितं यज्ञकलारहस्यम् । गृहे यतित्वेऽप्यभिरूपरत्नत्रयीजुषा कीर्तिरतानि तेन.
त्वद्वाणिमाधुर्यजिता पलाय्य सितोपला काचघटी विवेश । तत्रापि भीतिं दधती शलाका
व्याजेन जग्राह तृणं तु वक्त्रे... श्रीवीरसेवारसलालसत्वात् त्तद्बाधिनी केवल बोधलक्ष्मीम् । अप्याय(ग)तामादरिणीं वरीतुं तृणाय मत्वा त्वमिमन्वमंस्थाः...
अपोढ पङ्के कविभिर्निषेव्ये निरस्ततापे बहुभङ्गजाले | विभो भवद्वाङ्मुखगाङ्गपूरे
दुर्वादिपूगास्तृणवत्तरन्ति. राकामये दिग्वलये समन्ताद्यशःशशाङ्केन ध्रुवं कृते ते । कुहूध्वनिः केवलमेव कण्ठदेशं पिकानां शरणीचकार.
।।१३।।
||१४||
र........
.. ।।१५।।
१२
For Private And Personal Use Only