________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देहप्रभाजितरविः सुकृतोपलभ्या,
श्रीइन्द्रभूतिमभिनम्य गुणान् प्रणौति...... ।।६।। यो यक्षषोडशसहस्रपतिर्गजास्यो, दिव्यायुधप्रबलविंशभुजस्त्रिनेत्रः । स द्वादशांगसमयाधिपतित्वमाप्तः, श्रीगौतमक्रमजुषो गणिपिट्टिनामा.. ............... ।।७।।
इन्द्राश्चतुः षष्टिरथापि विद्यादेव्यस्तथा षोडशशासनेशाः । द्विधा चतुर्विंशतिदेवताश्च,
श्रीगौतमस्यांह्रियुगं भजंति.............. ।।८।। (३) आचार्य श्री गौतमस्वामी अष्टकम्
गुणसागरसूरिकृतम् वसुभूतेः श्रेष्ठः पृथ्वीमातुः सुनंदनः गोबरग्राम वास्तव्यः सेष्टं यच्छतु गौतमः.........
देवेन्द्रैर्मानवेन्द्रैर्य संस्तुतः पूजितो गुणी
वीर विनयवान् वर्यः सेष्टं यच्छतु गौतमः................. ।।२।। अनंतलब्धिमान् यस्मै दीक्षां यच्छति तस्युत । जायते केवलज्ञानं सेष्टं यच्छतु गौतमः.......................... ||३ ।।
त्रिपदीं प्राप्य वीराद्धि द्वादशांगी त्वरं व्यधात् ।
उपकार्यभवद्वर्यः सेष्टं यच्छतु गौतमः...................... ।।४ ।। त्रिपञ्चशतसाधूनां परमान्नेन पारणम् । अकारयद्धि लब्ध्या यः सेष्टं यच्छतु गौतमः.................... ।।५।।
.... ।।१।।
For Private And Personal Use Only