________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१. देवानन्दसूरिरचितं श्री गौतमस्वामि अष्टकम् श्रीइन्द्रभूति वसुभूतिपुत्र, पृथ्वीभवं गौतमगोत्ररत्नम् । स्तुवन्ति देवासुरमानवेन्द्राः, स गौतमो यच्छतु वाञ्छितं म ।।१।।
श्रीवर्धमानात त्रिपदीमवाप्य, मुहूर्तमात्रेण कृतानि येन।
अगानि पूर्वाणि चतुर्दशाऽपि, स गौतमो यच्छतु वाञ्छितं मे ।।२।। श्रीवीरनाथेन पुरा प्रणीतम्, मन्त्रं महानन्दसुखाय यस्य । ध्यायन्त्यमी सूरिवराः समग्राः, स गौतमो यच्छतु वाञ्छितं मे ।।३।।
यस्याभिधानं मुनयोऽपि सर्वे, गृहन्ति भिक्षाभ्रमणस्य काले । मिष्टान्नपानाम्बरपूर्णकामाः, स गौतमो यच्छतु वाञ्छितं मे ।।४।। अष्टापदाद्रौ गगने स्वशक्त्या, ययौ जिनानां पदवन्दनाय । निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु वाञ्छितं मे ।।५।।
त्रिपञ्चसङ्ख्याशततापसानाम्, तपः कृशानामपुनर्भवाय ।।
अक्षीणलब्ध्या परमान्नदाता, स गौतमो यच्छतु वाञ्छितं म ।।६।। सदक्षिणं भोजनमेव देयं, साधर्मिकं सङ्घसपर्ययश्च ।। कैवल्यवस्त्रं प्रददौ मुनीनाम्, स गौतमो यच्छतु वाञ्छितं मे ।।७।।
शिवं गते भर्तरि वीरनाथे, युगप्रधानत्वमिहैव मत्चा।
पट्टाभिषेको विदधे सुरेन्द्रैः, स गौतमो यच्छतु वाञ्छितं म ।।८।। त्रैलोक्यबीजं परमेष्ठिबीजं, सज्ञानवीजं जिनराजवीजं; यन्नाम चोक्तं विदधाति सिद्धिं, स गौतमो यच्छतु वाञ्छितं में ।।९।।
श्रीगौतमस्याष्टकमादरेण, प्रवोधकाले मुनिपुङ्गवा ये।
पठन्ति ते सूरिपदं च देवानन्दं लभन्ते सुतरां क्रमेण ।।१०।। नोट :- अंतिम पंक्ति इस तरह से भी मिलती हैं
पठन्ति ते सूरिपदं सदैवानन्दं लभन्ते सुतरां क्रमेण ।।१०।।
For Private And Personal Use Only