________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२५) विनैक्यं शक्तिवृद्धिर्न, ज्ञातव्यं धर्मरक्षकैः । क्षुद्रभेदान् परित्यज्य, सबैक्यं साध्यमुत्तमैः॥१७६।। आपद्धर्म परिझाय, सम्पति जैनसूरिभिः । आपद्धर्मानुसारेण, कार्या जैनोन्नतिः शुभा ॥१७७।। जैनसङ्ख्याविख्यर्थ-मापद्धर्मस्तु सम्पति । संसेव्यो योजनां कृत्वा, जैनाचार्यादिभिर्बुवम्॥१७॥ औत्सर्गिकोपदेशेन, साध्वाचारस्य सम्प्रति । जैनसङ्ख्यामहाहान्या, तीर्थोच्छेदः प्रसज्यते॥१७९।। प्राधान्यमपवादस्य, कृत्वाऽतः सम्पति ध्रुवम् । सूरिसाधुगृहस्थैश्व, वर्तितव्यं विवेकतः ॥१०॥ मुप्रशस्यकषायैश्च, सम्पति धर्मसाधना ।। भवत्येवं परिज्ञाय, वर्तितव्यं प्रयत्नतः ॥१८१॥ विद्यावित्तादिसाहाय्य, देयं जैनः परस्परम् । जैन नान् समालोक्य, नतिः कार्या परस्पाम्॥१८॥ संमील्य देववत् कार्या, जैनर्भक्तिः परस्परम् ।
For Private and Personal Use Only