________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २२ )
तस्य श्रद्धानमात्रार्द्ध, जीवो याति परात्मताम् ।। १५३ ।। अनन्तधर्मात्मकजैनधर्मः अनन्तवेदात्मकजैनधर्मः । अनन्त सत्यात्मक जैनधर्मः, अनन्तशक्त्यात्मक जैनधर्मः सर्वधर्मसमावेशो, जैनधर्मे हि जायते । [ ॥ १५४॥ नयप्रमाणभङ्गेन, जैनधर्मः सनातनः ॥१५५॥ जैनधर्मोपदेष्टारो, याता यास्यन्ति सद्गतिम् । निन्दका जैनधर्मस्य, याता यास्यन्ति दुर्गतिम् ।। १५६ जैनधर्मसमो धर्मो, न भूतो न भविष्यति । अतः सर्वप्रयत्नेन, जैनधर्म समाचर जैनधर्मात् परो लाभो, नास्ति हि भुवनत्रये । प्रवृद्धया जैनधर्मस्य, जीवाः स्युः स्वर्गगामिनः।। १५८।। सर्वदर्शनदृष्टीनां, लीनता जैनदर्शने । अपेक्षातो भवत्येवं, जैनधर्मः सनातनः दयादिसत्यधर्माणां, पोषकः पापशोषकः । जैनधर्मो महीख्यातो, विश्वशान्तिप्रवर्तकः ॥ १६० ॥
॥१५७॥
For Private and Personal Use Only
॥१५९॥