________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६) बोधिलाभसमो लामो, नान्यो विश्वे हि माणिनाम् १०९ भव्यस्य साधुदीक्षायां, साहाय्येन फलं महत् । असङ्ख्योद्धारतो जैन-ज्ञेयं शत्रुञ्जयस्य वै ॥११०॥ बालहत्यादिपापानां, नाशो भवति तत्क्षणम् । मिथ्यात्विनां कृते जैने, विद्यावित्तादिदानतः॥११॥ धर्माभिमानतः स्वर्गो, मुक्तिमाप्तिश्व सम्मति । शस्यप्रेमादितो धर्मो, दुःषमारे विशेषतः ॥११२॥ चतुर्विधस्य सङ्घस्य, वैयावृत्यं शिवमदम् । वैयावृत्यं महाधर्मः, सम्पति जैनशासने ॥११॥ आप्नोति वाञ्छितं सर्वे, वैयावृत्येन सद्गुरोः । वैयावत्यसमो धर्मो, न भूतो न भविष्यति ॥११४॥ मनोवाक्काययोगेन, वैयावत्यकरा जनाः। धर्मभ्रष्टां न जायन्ते, कदापि दैवयोगतः ॥११॥ दुःखदौर्भाग्यनाशार्थ, वैयावृत्यं ध्रुवं मतम् । अस्मिन् जन्मनि साक्षाच, प्रत्ययस्तस्य जायते ११६
For Private and Personal Use Only