________________
ShriMahavir Jain ArachanaKendra
Acharya:shaKailassagarsunGyanmandir
अतोऽनर्थदः स्त्रीविश्वासो मतिमद्भिः सर्वथा हेयः । अथ श्वश्रूवध्वौ निजाभिमतस्थानं प्रयातुं तत्परेऽभूताम् । श्रुतसहकारवृत्तान्तो रहोगतश्चन्द्रराजो विस्मयं प्रपेदे । ततो वीरमती गुणावली जगाद, त्वमेवं जानासि विमलापुरीत्वितोऽष्टादशशतक्रोशं दरे वर्तते तत्र कथं गमिष्यावः ? परन्त्वेवं मा विश्चिन्तय, चणमात्रेण तत्र त्वां नेष्यामि, विषादं मा कुरुष्व, इत्थं तदालापं निशम्य चन्द्रेण विचिन्तितम् , अहमपि ताभ्यां साकमेव व्रजामि, त द्विचेष्टितच विलोकयामि तत्र गत्वेमे किं कुरुतः ? इति हृदि ध्यात्वाऽजसा तत्स्थानाद्विनिर्गत्य खड्गसहायः स निजवाटिकामेत्य प्रथमोपस्थितमाम्रतरं लक्ष्यीचकार. क्षणं विमृश्य केनाऽप्यलक्षितोऽसौ तत्कोटरं प्राविशत् । ततो निपुणमतिः स दध्यौ, विशुद्धशीला मत्पत्नी दुराचाररता नाऽभवत् । यथा महागिरयोऽपि चालनेन कदाचिञ्चलन्ति तथेयं मुग्धा मम विमात्रा परिभ्रामिताऽस्ति । इदानीं तयोश्चरित्रं पश्यामि, यावद्वीरमतीगुणावल्यौ तत्र समागच्छन्त्यौ विलोक्य स चिन्तितवान् । यदीमेऽन्यतरुमारुह्य गमिष्यतस्तदा मे प्रयासो सुधा भविष्यति, कौतुकालोकनश्च न भविष्यति । तावत्प्रमुदितचेतसौ ते तस्यैव तरोस्तले समागत्य तं समारुह्य तस्थतुः, तत्कोटरान्तर्निलीनचन्द्रराजस्तयानेत्रातिथि भूत् । अथ वीरमती सहकारतरुं कम्बया प्रहृत्य प्राह, रे आम्र! त्वमञ्जमा विमलापुरीमावां दर्शय, इति वचनमात्रेण सहकारो विमानमिव नभोमार्गेणोत्पपात, केवलज्ञानावरणीयकर्मणा केवलज्ञानमिव चन्द्रराजः कोटरावरणेनाऽवृतस्तथापि मतिश्रुतादिज्ञानावरणीयकर्मणां चयोपशमेन जीवात्मा यथा न्यूनाधिकमवबोधते तद्वत्सोऽपि तत्रस्थो बहिःप्रदेशं कश्चित्पश्यति, आम्रगतिर्मनसोऽप्यधिकजवा वर्तते, अनेकदेशविदेशगिरिवनोपवनानि निरीक्षमाणश्चन्द्रः सुखेन ब्रजति, | नभोविस्तृतायाश्चन्द्रज्योत्स्नाया निर्मलप्रकाशेन वीराब्धिगामिनी नौकेव विकसचन्द्रतेजसि व्रजन सहकारी निरीक्ष्यते ।
For Private And Personlige Only