________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराजचरित्रम् ॥
॥ ३६ ॥
www.bobatirth.org.
सुप्रसिद्धं तच्च पञ्चधाप्रकतिम्-तद्यथा
देशाटनं पण्डितमित्रता च, वाराङ्गना राजसभाप्रवेशः। अनेकशास्त्राणि विलोकितानि चातुर्यमूलानि भवन्ति पञ्च ॥ १२ ॥ तेषु देशाटनस्य प्राधान्यं विदितम् । त्वत्तो विहगा अपि भाग्यवन्तो विद्यन्ते यतस्ते विहायसि पर्यटन्तो विविधान्याश्चर्याणि विलोक्य निजनयनसाफल्यं वितन्वते । यथा रङ्को निजहस्तगतं गुढं सुधातुभ्यं मन्यते तथात्वमेकं चन्द्रनरेशं लब्ध्वा - sri कंचिन जानासि निज वेश्मस्थिता त्वं स्नेहाऽस्नेह वृत्तान्तं ज्ञातुमशक्ताऽसि, रेमुग्धे ? या देशान्तरगामिनी सा नारी नाकिवृत्तान्तमपि जानाति, विशेषज्ञानन्तु दुर्लभं संमतमिति किं न वेत्सि ? विदेशगामिनी प्रमदा केनाऽपि न वञ्च्यते । अपरे पुनर्गृहशूरा मठपण्डिताच बहवो दृश्यन्ते, परन्तु ये परस्थाने सन्मानं लभन्ते त एव विक्रमवन्तो विद्यावन्तश्चाभिधीयन्ते । प्राप्तस्यार्थस्य फलं तदेव निगद्यते, यत्किमप्यन्यसै प्रदीयते, जीवितस्य च साफल्यं तदेव यद्विविधदेशान्तरस्थ कौतुकानि विलोक्यन्ते, त्वं तु किमपि न करिष्यसीति मां प्रतिभाति । तब जन्म विफलमेव गमिष्यतीति निःसंशयं ज्ञायते इति वीरमत्यागादितानि मर्मभेदीनि वचांसि समाकर्ण्य तदाकृष्टहृदयाऽपि गुणखानिर्गुणावली तद्वचनानि वितथानि मन्यमाना जगाद, हे मातस्तवकथनं सकलं सत्यमेव प्रतीयते, तथाऽप्यावां देशान्तरं विलोकितुं कथं व्रजावः ? या निरङ्कुशतया स्वेच्छाचारिण्यस्तास्तु यथाभिलाषं सर्वत्रापि कौतुकानि निरीचितुं पर्यटन्ति । भगवति ? श्रहन्तु राजपत्नी विख्यात वंश संभवाऽस्मि, ततो मे स्वकीयप्रासादात्पदमात्रमपि बहिर्गन्तुमसाम्प्रतम् तर्हि देशान्तरगमनस्य तु का वार्त्ता ? पूज्यक्रमाम्भोजे ! भवदीयवचनेन कौतुकानि विलोकितुं मे भूयस्यभिलाषा जायते, किन्तु कृकवाकुरपि कलापकलया नृत्यक्रियां विधाय निजक्रमौ निरीक्षते ।
For Private And Personal Use Only
************O***O*********
Acharya Shri Kassagarsun Gyanmandir
प्रथमोलासे
नवमः
सर्गः ॥
।। ३६ ।।