________________
Acharya hisagarsun Gyaan
प्रथ मोलासे
॥ चंद्रराजचरित्रम् ॥
नवमः
समेः॥
॥ ३५॥
समानतामावहति । तथाप्येतयोविभेदं विना एव विदन्ति. त्वं स्वयमेव पण्डितायसे, अहन्तु त्वां पशुसमां जानामि. एकेनैव बचनेन त्वं मया परीचिताऽसि. अथगुणावली जगाद-पूज्यतमे ? केवलं विमूढबुद्धिरहमिति त्वया कथं ज्ञाता ? अहं विज्ञाऽस्मीति सत्यं जानामि । अधिकं किं वदामि ? स्वश्लाघा स्वमुखेन कत्तुं सर्वथाऽनुचिता, यदुक्तम्
परैः प्रोक्ता गुणा यस्य, निर्गुणोऽपि गुणीभवेत् । इन्द्रोऽपि लघुतामेति, स्वयं प्रख्यापितैर्गुणैः ॥ १ ॥
मातस्तव सूनुमें भर्ताऽस्ति. यस्य समो नास्त्यस्मिन् भूतले कोऽपि नरः । अभिनवगुणाकरेण तादृशेन स्वामिनाऽहं भूयसीं भाग्यरेखा स्पृशामि. तथापि त्वं मजन्म कथं विगोपयसि ? वीरमती प्रोवाच वत्से ? सावधानतया मदुक्तं शृणुष्व, स्वमनसि मैवं प्रमोदस्व, त्वदीयः पतिश्चन्द्रराजः कियन्मात्रः यद्यपरान्पुरुषानिरीक्षेथास्तदा त्वं विजानीयाः विशेषतां यतः कूपस्थभेकः सागरकल्लोलान्कथं जानाति ? रतिरूपवैभवं कुब्जनारी कथं वेत्ति ? यो नानिकेरफलास्वादं न जानाति तस्य क्षुद्रचिर्भटीफलान्यपि | स्वादिष्टानि भवन्ति । नागरिकाणामैश्वर्यमारण्यको जनो विज्ञातुं कथं प्रभुः ? यः कम्बलं परिदधाति स राङ्कवादिमहादुकूलानन्दं कथं वेत्ति ? येन प्रवहणानि न विलोकितानि स संतरणाय तुम्बिकामेव परमं साधनं जानाति । तैलिकवृषभो यन्त्रस्थितो जगद्वृत्तान्तं वेदितुमप्रभुः । स्नुषे ? त्वं मञ्चिकामत्कुणवत्सर्वथाऽनभिज्ञाऽसि । मन्येऽहमेकैकपुरुषा रूपसंपद्भिरभिनवकामसौन्दर्यमपि तिरस्कुर्वन्ति, इत्थं श्वश्रूवचनानि निशम्य गुणावली जगौ, पूज्यतमे ? मैवं वितथवादं मां श्रावय. तव पुत्रसमाना अनेकनरा अस्मिल्लोके न भवेयुः । भवदीयकुलोद्योतकरश्चन्द्रममानश्चन्द्रस्त्वेक एव, तारका अनेक प्रकाशन्ते, सिंही त्वेकमेव पुत्र प्रमूते, कोष्टारोऽनेकशो वनवीथिकायां परिभ्रमन्ति, कस्तूरिकामृगास्तु क्वचिदेव लम्यन्ते, अन्ये हरिणा
॥३५॥
For Private And Personale Only