SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ www.kobahrth.org ॥ १२ ॥ सूर्यकुण्डपयः स्पृष्टं, सर्वथा दुरितापहम् । प्रसिद्धिरिति सर्वत्र, जनकौतुककारिणी ॥ १३ ॥ दर्शयन्ती त्रपां दृष्टा, प्रेमला पतिमब्रवीत् । स्नानं विधाय कुण्डेऽस्मिन्, प्रभुभक्ति समाचर ॥ १४ ॥ सूर्यकुण्डप्रभावोऽयं, सर्वत्र प्रथयिष्यति । यद्विगाहनमात्रेण, मानुष्यं लब्धवानसि ॥ १५ ॥ स्वामिन्नस्य गिरिराजस्य प्रभावेणावयोमनोरथा-पूर्णतामीयुः । अहो ! यदाराधनमक्षयफलदम्-अनेके मुनयोछत्र या सिद्धाः सेत्स्यन्ति चापरे । मन्यन्ते शाश्वतं तीर्थ-मेनं मोक्षप्रदं बुधाः ॥१॥ सम्यक्त्ववासितमेनंभूरुहञ्च भक्तिरसेन निषित्र वं, येननवपल्लवराजितोऽयं सद्योविरतिफलराजी जनयति, विदिततीर्थप्रभावश्चन्द्रराजस्तद्वचनंस्वीचकार, अथ विहितमजनौ तौ दम्पती सम्पादितानुत्तमद्रव्यैःश्रीऋषभजिनेन्द्रबद्धमुखकोशौ पूजयामासतुः । ततोजिनवरमूत्तौ प्रचिप्तदृष्टिःप्राञ्जलिःसन्स्वयमस्तीपीत-स्वभक्तवत्सलोऽनघः सदापर्गभोगदो-दरिद्रदुःखहारकत्रिलोकशङ्करोत्तमः । स्वकान्तितर्जितोष्णगुः सुरत्नमालया वृत-स्तनोतु सिद्धभूधरः स्थितादिनाथ इष्टताम् ॥१॥ दृष्टेऽप्यस्मिन्प्रलयं, प्रयान्ति पापानि तत्क्षणानृणाम् । यथा मृगेशे दृष्टे, नश्यन्ति मृगाः सहस्रशोऽरण्ये ॥ २॥ सिद्धा मुनयोऽनेके, सेत्स्यन्त्यपि भूरिशस्तथा भव्याः । सिद्ध्यन्त्यस्मिन् शतशः, सिद्धक्षेत्रं ततः प्रसिद्धमिदम् ॥ ३॥ चैत्यान्यनेकसंख्या-न्यत्र विराजन्ति मुख्यतीर्थकृताम् । दिव्यमणिमयान्यर्ह-द्विम्बान्यपि लक्षशः प्रकाशन्ते ॥ ४ ॥ विमलाचलगिरिराजे, नमिविनमी खेचरौ तथा द्रविडः । नृपतिरथो वारिखिल-स्थावच्चाम्ररिपुङ्गवाद्यन्ये ॥ ५॥ देवक्याः पद् पुत्रा-नारदपाण्डवगणाश्च शिवलक्ष्मीम् । प्रापुरतः शाश्वतिका, सिद्धगिरिरयं भवाम्बुधौ पोतः ॥६॥ युग्मम् ।। स्फटिकोज्वलजलराशि-स्तीर्थमणिरिवान सूर्यकुण्डोऽयम् । स्पृष्टं यदीयपाथो-जनयति हृदि चिन्तितं शर्म For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy