SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra *••*•*••**•*•→→*--*••*@**-**(**•*••**•f«4 www.khatirth.org त्वया दुःखं, कर्ममूलं नरेश्वर । अचिरालप्स्यसे राज्य - रमणीप्रभवं सुखम् || १|| प्रियभ्राताऽसि मे राजन् ?, तवाऽहं भगिनी प्रिया । दैवेन निर्मितो नूनं, सम्बन्ध आवयोरयम् ||२|| मनुष्यत्वमथासाद्य, भवता दर्शनं मम । अवश्यमेव दातव्यं कुर्वत्याः स्मरणं तव ॥ ३ ॥ श्रविचार्य मया प्रोक्तं चन्तव्यं भवता वचः । कृपालवः सदा सन्तः, सापराधेऽवलाजने ॥ ४ ॥ हे वीरमूर्द्धन् ? मनोरथास्तव, भवन्तु सद्यः सफला धराधिप । स्मृतिर्मदीया भवतानुवासरं, नोपेक्षणीया स्वपदानुसेविना ॥ ५ ॥ त्वदर्शनेनैव मदीयजन्मनो - जानामि साफन्यमनन्यशर्मदम् । अतोऽस्मदीयां परिषह्य दोषतां, कृपालुना भाव्यमपि त्वया मयि ॥ ६॥ एवंताम्रचूडेन साकं स्वाभिप्रायं दर्शयित्वा सा तं नटाधिपाय प्रत्यर्पयत् । तदानींमन्त्रिपुत्रोऽपि स्वगृहमागमत् । अथगृहीतसत्कारानटास्तस्मान्निर्गत्या नेकग्रामनगराणि पर्यटन्तः कुत्रचित्कुक्कुटनिमित्तंसंग्राममपि कुर्वन्तोऽद्भुत कला कौशल्येन भूयसींकीर्त्तिसम्पादयन्तः क्रमेण विमलापुरीमभिजग्मुः । यत्र च वीरमत्या पुरा सहकारःस्थापितस्तत्रैव पटमण्डपं विधाय ससैनिका नटा निवासचक्रुः । ताम्रचूड : पूर्वपरिचितांतां भूमिमुपलक्ष्य प्राक्तन स्नेहसंस्मरन् भाटकेन परिणीतांप्रेमलालक्ष्मीमपि सस्मार, चिन्तितश्च तेन – यत्रागमेनैव विहङ्गमोऽहं, जातोऽस्मि सैवाऽस्ति पुरी विशाला । दुःखाद्विमुक्तिः पुनरागतस्य ममात्र भाविन्य कलङ्कितस्य ॥ १ ॥ नो चेदिदं पत्तनमद्भुतंक १, क्क मे पुरी स्वर्गिगणोपसेव्या ? । सुदैवयोगेन सुदुर्घटानि, सिद्ध्यन्ति कार्याणि मनुष्यलोके ॥ २॥ तथा च-- जीवन्नरो भद्रशतानि पश्येत् श्रन्यश्च ॥ जीवन्नरः स्वेष्टजनस्य संगति-मासादयेत्कर्मगतिप्रभावतः । मनुष्य कीटोऽन्यदहो ? विचिन्तय-त्यखण्डिताज्ञो विधिरन्यदेव च ॥ १ ॥ इयमुक्तिरवितथा प्रतीयते, पुराऽहमत्र समागतः परमप्रमोदमविभरम् । तत्सर्वंविफलंजातमतएव विधिनाऽहं पचित्वंप्रापितः, For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr -*-*-*-*++******+******+*ल
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy