________________
न्मुक्तागणप्रस्फुरत्प्रत्यर्थिक्षितिपालमौलिमणिमिर्विद्योतते भूरियम् ॥ २१॥ इत्थंपरस्परेषां भयप्रदा सङ्घामभूमिरजनिष्ट, प्रौढविक्रमैश्चन्द्रराजसैनिकैः पराजितोबलवानपिसिंहलराजोविलक्ष्यीमय जिजीविषुःसंग्रामात्पलायनंचक्रे, नटाअपिगृहीतपञ्जरा जयदुन्दुभिवादयन्तःसवलापोतनपुरपत्तनमभियातुमनसस्तसाद्विनिर्गताः । कुकुटराजस्य जयवादःसर्वत्राऽश्रूयत, क्रमेण निरन्तरप्रयाणैव्रजन्तस्ते नटाः साक्षात्वीरोदधिसुतायाः निवासस्थानविविधसम्पद्गणैरमरावतींहसदिव धनाढ्यगणशोभितंप्रौढशालंपोतनपुरंपत्तनंप्राप्ताः । तस्मिंश्चासीजयसिंहनामा नृपतिर्विजितारातिमण्डल ऊर्जितस्वभुजविक्रमेण निजापत्यवत्सकलां प्रजापालयतिस्म, बुद्ध्या विजितवाचस्पतिःसुबुद्धिनामा तस्य मन्त्रिमुख्योऽभूत्-तत्पत्नी च रूपगुणमञ्जूषा मञ्जूषाभिधाऽभवत्-तत्पुत्री यूनां मनोग्राहिणी रम्यरूपलावण्या लीलावतीनाम्नी समासीत् । प्राप्तयौवनांताञ्च तन्नगरप्रेष्ठिनोधनदोपमस्य धनदस्य लीलैकसदनलीलाधरनामा सूनुरुपयेमे. ___समानौ रूपवयसा, समानौ गुणशीलयोः । रत्यनङ्गनिभौ तौ हि, दम्पती सुखभागिनौ ॥१॥ मीनकेतुरसासक्तौ, दोगु*न्दुकसुराविव । नाज्ञासिष्टां गतं कालं, निष्पन्नस्वमनोरथौ ॥२॥ अथैकदा हीनपुण्यो-नरः कश्चित्समागतः । अन्नार्थी श्रेष्ठि
सूनुंत-मयाचत गृहस्थितम् ॥३॥ लीलाघरो व्यग्रचित्तः, स्वकार्ये तमतर्जयत् । सोऽपि क्रोधातुरोऽवादी-त्कोऽपमानं सहेत हि ॥४॥ श्रेष्ठिपुत्रेदृशं गर्व, मा विधेहि विमूढधीः । यावृशस्तादृशोऽप्यस्मि, त्वत्तः श्रेष्ठतरो गुणैः॥५॥ स्वभुजार्जितवित्तेन, जीवनं धारयाम्यहम् । त्वं तु पित्रार्जितं द्रव्यं, मुझे केलिपरायणः ॥ ६ ॥ तस्मान्मुधाऽधिकं गर्व, मा कुरु द्रव्यमोहितः । त्वादृशोऽहं पराधीनो-नैवाऽस्मि धर्मषकः ॥७॥ गृहागतं बजानन्य-स्तर्मयेदतिथिं जनः । मोऽधमो दुष्कृतं तस्य, गृह्णाति केवलं जडः
I
For PvAnd Persone
ly