________________
AcharyanKadamagarsunaamana
हिमा स मणिप्रभासमार्यःप्रवरं विमानमारुह्य यात्रायै निर्गतः । यतो लब्धेऽप्युत्तमे मानवजन्मनि देवयात्रा महता पुण्येन लम्पते,
तद्यथा-देवयात्रा तथा शुद्धो-धर्मः सत्सङ्गमस्तथा। सुनिर्मलं यशो लोके, प्राप्यते पुण्ययोगतः ॥१॥
इतिशास्त्रवचनमनुस्मरन् स सिद्धगिरिप्रमुखानेकयात्राःसंविधायाद्यतन्यारजन्यांभासमानायामाभापुर्यासमागतस्तावदाक| स्मिकी मेघवृष्टिःसमजनि, पवनश्वपरितःपासीसरत् तेन तद्विमानंगतिभङ्गंविधाय तत्रैवाऽतिष्ठन् , तदा जातकौतुकया तद्भार्यया पृष्टं-स्वामिन् ? अद्याकालिकवृष्टिजनने कोहेतुः सर्वत्राऽनिषिद्धगमनमिदंदिव्यविमानश्च कथंविहीनगतिकंसञ्जातम् । इत्थं निजपत्न्या प्रेरितोविद्याधरोऽवदत्-प्रिये ! तत्सर्वमहं जानामि, परन्त्वेतद्वृत्तान्तकथनंसुतरामनह परकीयवार्ताकथनेनाऽस्माकं कोऽपि लाभो न विद्यते, निर्हेतुकानि वाक्यानि पठितान्यपि कार्यसाधकानि न भवन्ति, इति तेन निषिद्धापि कदाग्रहास्ता सा विद्याधरी प्रोवाच-आर्यपुत्र ? प्रसादंविधायेमांवातबिहि, नोचेन्महाननर्थोजनिष्यति । इत्थंनीहठंमोचयितुमशक्तोविद्याधरस्तनिवेदयितुंप्रारभत, अस्यामाभापुर्यापोरान्प्रति कश्विनिर्जरोरुष्टोजातस्तेन नरेन्द्रमुपतापयितुंसमारुतेयंवृष्टिविहिता, राज्ञश्चमहता पुण्यप्रभावे| णास्मदीयमिदंविमानस्खलितमस्ति, विद्याधर्या मणित-स्वामिन् ? अस्ति कश्चिदेतादृगुपायोयेन तस्य नरेशस्योपद्रवो न स्यात् ।। यद्येवंविधंसामर्थ्य भवतःस्यान्चेत्परोपकारेण जन्मसाफल्यविधातव्यम् , परोपकृतितुल्यंनास्त्यन्यत्कर्त्तव्यंमानवलोके-तद्यथा
परोपकारः कर्त्तव्यः, प्राणैरपि धनैरपि । परोपकृतिजं पुण्यं, न स्यात्क्रतुशतैरपि ॥१॥ आत्मार्थ जीवलोकेऽस्मि-को न जीवति मानवः । परं परोपकारार्थ, यो जीवति स जीवति ॥२॥ परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः । परोपकाराय दुइन्ति गावः, परोपकारार्थमिदं शरीरम् ॥३॥ भवन्ति नम्रास्तरवः फलोद्गमै-नवाम्बुभिर्भूरिविलम्बिनो
For Private And Persone n