SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ AcharyanKalamagranepamana तत्र तत्र चन्द्रराजमेव कथयिष्यसि, मत्पुत्रमहं सम्यक् प्रत्यभिजानामि, यतः स मे वशवर्ती समजनि । इतः कोटरस्थश्चन्द्रराजो विमात्गदितवचनानि निशम्य चेतसि चिन्तयति, कदाचिदियं बुद्रबुद्धिरिहस्थ मां ज्ञास्यति चेदवश्यं मां पीडयिष्यति, तस्मात्सर्वथा मद्वृत्तान्तं न जानातीयं चेत्सर्वं समञ्जसं भवेत् . एवं वितर्कयन् स श्वश्रूवध्वोर्वार्तालापं शृणोति, अथाम्रतरुरपि नभोगतिं वितन्वन्ननेकनगरगिरिशिखराण्युल्लङ्घयन्त्रजति, क्रमेण संप्रयान् चन्द्रा दूत याभापुरीमद्रासीत् । विभातां विभावरी सूचयन्तश्चरणायुधा मधुरध्वनिभिर्दिङ्मण्डलं गर्जयन्ति स्म, ऐन्द्री दिग्वधरानन्दमयी जज्ञे, एकतोऽरुणोदयोपक्रमोऽभूत् , अन्यतो रजनीकान्तोऽप्यस्तमितुमागत', सहकारोऽपि निजोपवनं ममामाद्य मूलस्थानं समापनः । ततो बीरमत्याभणितंमुग्धे ? अयमस्मदुद्यानः समागतः, वृक्षादवतर, इत्यभिधायोभे नीचैरवतीर्य स्वस्थानं चलिते, तदानीमपि ताभ्यां चन्द्रराजो न ददृशे दैवयोगात् । श्वश्रूवध्वौद्वेऽपि शरीरशुद्ध्यर्थनिकटवर्तिनींपुष्कलजलांपुष्करिणींगतवत्यौ । ततश्चन्द्रराजोऽवसरंक्षात्वा सहकारकोटरान्निर्गत्यलघुगत्यानिजावासमियाय, नैशिकंवेषश्चपरावृत्यनवीन नेपथ्यपरिधाय प्राग्वत् निजशय्यायांसुष्पाप, श्वश्रवध्वावपि सहासंक्रीडमाने निजावासभेजतुः । अथवीरमती कम्बांदत्वा गुणावलींचन्द्रराजसन्निधौ प्रेषयामास, वीरमती च स्वयंनिजविद्याप्रभावेण पौरलोकान्विनिद्राँश्चकार । जाग्रदवस्थामनुभवन्तःसर्वेऽपि नागरिकाःप्राभातिकानि स्वस्वकर्माणि विनिर्मातुम्सुद्यता अभूवन् । अनयोनिशावृत्तान्तं कैश्चिदपि न विनातम् । इतो त्वरितगमना गुणावली निजप्रासादमभ्येत्य निद्रितस्वपतिमपश्यत् । कपटनिद्रितेन चन्द्रराजेनाऽपि निजान्तिकमागता सा विलोकिता. गुणावली तु निद्रायमाणं स्वपति | विलोक्य निश्चिन्ता जज्ञे. पुनर्निजचेतसि सा विषादमप्यकरोत् , यतोऽहंकृताऽपराधा महापापिनी जाता, घोरनिद्रायामहो? मया For Private And Persone n
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy