________________
*
॥चंद्रराज
द्वितीयोलासेचतुर्थः
चरित्रम् ॥
| सर्गः॥
॥६४॥
स्माकंराजसुता भूरिभाग्यवती कथं न गीयते ? अस्य कुमारस्य जनन्यपि धन्यवादमर्हति, यदीदृशंपुत्ररत्नप्रसुषुवे | अहो ?
पत्ररत्नप्रसषवे | अहो ? अस्यरूपलावण्यम् ? अस्याग्रे देवस्वरूपमपि कियन्मात्रम् ? इत्थंजल्पमानेषु जनवातेषु दीव्यशोभाकलितोवरघोटकःशनैःशनैःप्रचलञ्जनमानसानि रजयश्चमण्डपान्तिकंजगाम, प्रमदाजनोऽपि मण्डपस्य निकटवर्तित्वाद्गुरुप्रमोदपूर्वकमङ्गलगीतानि द्विगुणितस्वरेण गायतिस्म, ततोवरराजोगजवरादुत्तीर्य सवयोभिःसमन्वितःसावधानतया तोरणस्य सनिधौस्थितः ।
इतिश्रीचन्द्रराजचरित्रे द्वितीयोल्लासे तृतीयःसर्गः ॥ ३ ॥ अथ पूजनपात्रहस्ता, सधवाभिःपरिवारिता श्वश्रूस्तत्र समागता, गुरूपदिष्टेन विधिना तंपुखयित्वा वरंवरमण्डपमनैषीत् । | ततो वरोमातृकागृहंगत्वोपविष्टः । अत्रान्तरे प्रेमलालक्ष्मीमपि क्षिप्रविविधालङ्कृतिभिस्तत्सहचर्यःसन्जयामासुः, यस्याः
श्रवणयोस्तत्कालसमागतमन्मथनृपरथचक्रयुगलमिव मणिमयकुण्डले विराजेते । यस्याःकण्ठकन्दले वदनशशिशङ्कया समागतस्तारकगण इव लम्बमानोनवमालोहारोभ्राजते । यस्यानितम्बबिम्बेऽतिविशाले गगनाभोगे सुरेन्द्रचापरेखेव पञ्चवर्णरत्नमयी काची विराजते, यस्याहृदये यावकरसरञ्जितचरणयुगलप्रतिबिम्बच्छलेन कुमाराऽनुरागोऽमानिव बहिःक्षरति, एवंसविशेषग्रसाधनसाधिता मत्तगजेन्द्रगामिनी मजुमञ्जीरकसिञ्जनश्रवणेन समागतस्य मरालस्य गतिस्खलयन्ती चेटीचक्रेण परिवृता नरेन्द्रतनयाऽपि वन्दनमालाऽलङ्कते वरवेदिकाभवने समायाता, ततस्तत्क्षणसमागताह्मणैर्हवनकर्मणि समारम्धे महा पाणिग्रहणविधिःप्रावर्त्तत, तदानींवरकन्ययोःस्वजनपक्षाभ्यांप्रमुदितप्रमदाजनारब्धमङ्गलवादसनाथीकृतशिष्टाचारोव्यरच्यत, सौरभ्यशालिकुडमविलेपनस्तदधिकृतपुरुषा मण्डपगतान् जन्ययात्रिकान् रञ्जयन्तिस्म, ततोऽतिसुरभीणि
॥६४॥
For
And Persone
ly