________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ प्रशस्तिः ॥
तीर्थकरचतुर्विशो महावीरजिनेश्वरः परंपरागते ख्याते, तत्पट्टे हीरसूरिराट् ॥ १ ॥ सहजसागरस्तस्य, शिष्योऽभूद्वाचकोत्तमः तच्छिष्यो व्रतिनां मुख्यो, वाचको जयसागरः २ परम्परागते पट्टे, संवेगोद्वारकाग्रणीः शान्त दान्त गुणोपेतो, मुनिः श्री नेमसागरः | ३ | - महाप्रतापपाथांधिः सञ्चारित्र प्ररूपकः भारते सूर्यसंकाशः पूज्यः सर्वेषु साधुषु ॥ ४ ॥ वरप्रदान सिद्ध्यादि, चमत्कारनिधिर्मुनिः तत्पट्टे प्रसिद्धः श्री रविसागरयोगिराट् ॥ ५ ॥ सप्ताधिकेस एकोनविंशतिशतवत्सरे मार्गशीर्षैकादश्यां दीक्षां शुक्ले मुनिर्दधौ ॥ ६ ॥ अधिभूतनिधानैकवत्सरे ज्येष्ठकृष्णगे एकादशीदिने प्रातः सिद्धियोगे दिवंगतः ॥७॥ तत्पट्टे साधुवयसौ, निर्मलत धारकः लोके पूज्यतमः प्रातःस्मरणीयगुणावलिः ॥ ८ ॥
For Private And Personal Use Only