________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
x3
५४
क्रमात् तस्माद्दशगुणं, पुण्यं भवति वामन || नंदीश्वरे कुण्डलाद्रौ, मानुषोत्तरपर्वते ।। वैभारेऽपि समेदाद्रौ, वैतात्ये मेरुपर्वते ॥ रैवताऽष्टापदे चैव, क्रमात् कोटिगुणं भवेत् ।। शत्रुञ्जयेऽनन्तगुणं, दर्शनादेव तन्मतम् ।। सेवनात्तु फलं शक्र, यत्तद्वक्तुं न पार्यते ॥ अन्यत्र पूर्वकोट्या यत्, शुद्धध्यानेन शुद्धधीः ॥ प्राणी बध्नाति यत्कर्म, मुहूर्तादिह तद्रुवम् ॥ नास्त्यतः परमंतीर्थ, सुरराज जगत्रये ।। यस्यैकवेलं नानापि, श्रुतेनाहःक्षयो भवेत् ॥ शत्रुञ्जयमिदं तीर्थ, न यावत् पूजितं भवेत गर्भवासो हि तस्यास्ति, तावता दूरता वृष ॥ कथं भ्रमसि मूढात्मन् धर्मो धर्म इतिस्मरन् । एकं शत्रुजयं शैल मेकवेलं निरीक्षय ॥ ६ ॥ जिना अनन्ता अत्रेयुः सिद्धाश्वात्रेव वासव ।। मुनयश्चाप्यसरव्याता स्तेनतीर्थमिदं महत् ॥ ७८ ॥ चराचराश्चतेजीवा धन्यास्तत्र सदानगे। धिक्तस्य जीवितंयेन न द्रष्टं तीर्थमप्यदः ॥ ७९ ॥ मयूरसर्पसिंहाद्या हिंस्रा अप्यत्र पर्वते ॥ सिद्धाः सिद्धन्ति सेत्स्यन्ति प्राणिनो जिनदर्शनात् ॥ ८०॥ बाल्येऽपि यौवने वाये तिर्यक्जातौचयत्कृतम् ॥ तत्पापं विलयं याति सिद्धाद्रेः स्पर्शनादपि ॥ ८१ ॥ स्वर्लोके यानि बिंबानि भूतलेयानिवासव ॥ .. पातालेऽपि तदर्चातोऽ प्यधिकेs जिनार्चना ॥ ४९॥
For Private And Personal Use Only