________________
ShriMahavir JanArchanaKendra
Acharya:sha.kaithssagarsunGvanmandir
मादिशन् , पटुबुद्धयस्ताः शीलवती प्रसाधयितुं सर्वसामग्री कर्तु लमाः, पिष्टिकावासिततैलाम्यङ्गपूर्वक स्वच्छसुगन्धितवारिणा विहितमजना शुद्धाम्बरविभूषिताङ्गी, अगरुवासितकचकलापा, मलयजचन्दनविलिप्तवदोजा, साक्षतघुसणार्चया विभूषितललाटपट्टा, कनकतन्तुनिर्मितरक्तकौशेयान्तरीया घुसृणरञ्जितसदशपीतवसनोत्तरीया, हरितवर्णा कमलतन्तुविनिर्मितामिव कञ्चुकी सुदृढं वसाना, लाचारसरञ्जितपादतला, अङ्गुलीयकविराजितपादाङ्गुलीवजा, नूपुरकिङ्किणीवातेन वाचालितपादयुगा, कनकमयकाश्चीसूत्रेण विभूषितकटीतटा, महायमणिहारेण मध्यस्थितपयमणिमुक्तामालया च विराजितकण्ठलता, काञ्चनहाराव
लिभिः समालिङ्गितकपोतग्रीवा, नासिकेयेन भ्राजमाननासिका, कर्णावतंसराजितश्रवणयुग्मा, केयूराभ्यां विराजितभुजदण्डा, * कङ्कणश्रेणिभिराश्रितकरकमला, ऊर्मिकालिङ्गितदशाङ्गुलिका, रक्तिकयारक्तीकृतनखकरतला, हीरकेण तिलकितचन्द्रार्द्धनिभ
भालदेशा, चूडामणिनोल्लसद्धम्मिल्ला, वेणीदण्डाग्रलम्बमानवेणीभूषणभूषितपाणिभागा, ताम्बूलबीटिकारसेनरक्ताधरोष्ठबिम्बा, सिन्दूरप्रकरणसंभृतसीमन्ता, कजलनयना, कजलबिन्दुनाङ्कितगल्लदेशा सा शीलवती मणिमुकुरे मुखंविलोकमाना परां लजा प्रपेदे । तत्र समागताः समानवयस्यास्तां वरवर्णिनी प्रबोध्य शनैः शनैः सञ्चारयामासुः, गजगामिन्या तया कुमारिकयासह तद्दास्यः करस्थितकुकमचन्दनसुरभितैलजलकर्पूरादिसौभाग्यद्रव्यपात्राः सञ्चेलुः । न पुरादीनां रणत्कारेण बाधिर्यमुत्पा| दयन्त्यः कोकिलकण्ठ्यः सर्वाः सुन्दोमधुरस्वरं मङ्गलगीतानि गायन्तिस्म, क्रमेण सा शीलवती सहस्रदिनकरप्रभा वितन्व
न्ती मातृकाभवनमाजगाम । ततो विवाहवेदिकायां योग्यासनोपविष्टयोर्वरकन्ययोः सुरभितैलादिसुवासितमालत्यादिकुसुमहाराः समर्पिताः, पण्डितप्रवरैः शास्त्रोक्तप्रयोगानुसारेण कन्यादानसङ्कल्पादिविधिपूर्वकं वरकन्ययोः करसम्मेलनसमयः प्रसा
For Private And Personlige Only