________________
माकथासार
॥११॥
श्री | तथाऽपि प्रियतम ! भवतश्चित्तशान्तये पुष्पमालामिमां गृहाण, ममशीलप्रभावादियं सर्वदाअम्लानैव स्थास्यति, अविवसेन कदाचिदियं म्लायति तदामेशीलं खण्डितमिति ज्ञातव्यम् , एवं ब्रुवाणा सा स्वहस्तेन निजमर्तुः कण्ठेपुष्पमालामार्पयत् , शीलवती-II ततोऽजितसेनो मन्त्रिप्रवरः शीलवती सबनि विमुच्य निर्वृत्तचेता अरिमईनभूपेन सार्ध निरगमन, निरन्तरं प्रयाणं
कुर्वन् भूपतिस्तथाविधं प्रदेशं प्रयातः, यत्रजातिशतपत्रादिपुष्पाणां सर्वथाऽभावः, तदानीमजितसेनकण्ठस्थितां विकस्वरां पुष्पमाला प्रेक्ष्य भूपेनाऽभाणि, मन्त्रिन् ? तव कएठेऽम्लाना पुष्पमाला कुतः १, इदं महदाश्चर्य मे प्रतिभाति, मयानिजपुरुषाः प्रेषिताः सर्वत्र तैर्विशोधन विहितं तथापि कुत्रापि पुष्पाणि नमिलितानि । तदामन्त्रिणा कथितं, प्रयाणदिवसे मत्पत्न्येयं पुष्पमाला ममकण्ठे स्थापिताऽस्ति, तस्याःशीलप्रभावादियं न म्लायति, इत्थं निशम्य नृपतिश्चेतसि भृशमाचर्यमवाप। पश्चादजितसेनस्ततः समुत्थाय गतः, तदा तेन निजनर्ममन्त्रिणस्तद्विचारसारः पृष्टः, अजितसेनमन्त्रिवायत्कथितं तत्किमिदानी सत्यं प्रतीयते , तदा कामाकुरोऽवदत् , प्रमदानामेतादृशं शीलं कुतःस्यात् ?, ततो ललिताङ्गेन कथितं-देव ! कामांकरोयत्कथयति तत्सत्यमस्ति, तदनु रतिकेलिर्जगाद, किमस्मिन् कार्येभवतः सन्देहोऽस्ति तदानीमशोकः प्रोवाच, देव ? मां पहिणु, येनशीलवत्या शीलं खण्डयित्वा भवन्तं निःसन्देहं करोमि, ततोनृपतिना प्रभृतं धनं समाशोकमन्त्री तत्रप्रेपितः, नृपतेर्निदेशान्मोदमानोऽशोकोनन्दनपुरे समागतः, शीलवत्याः हर्म्यस्य सन्निधावेकं विशालं गृहं लात्वा तत्रस्थितः, स प्रतिदिनं गवाचे चोपविश्य किन्नरवत्पञ्चमोद्गारेणाऽऽलापपूर्वकं गीतमगायत् , विशुद्धवसनः स च सानुरागदृष्ट्याशीलवतीमपश्यत्, तथैव प्रत्यहं दानभोगैर्निजंदचस्वभावमदर्शयत् , इत्थं यदा सोऽनेकधा चेष्टाः कर्तुं लगस्तदाशील
॥११॥
For Private And Pesso