________________
AcharyanKadamagarsunaamana
तयथा-अस्ति जम्बूद्वीपगते भरतक्षेत्रे स्वर्गपुरीसमानं विबुधविराजितं जनाऽऽनन्दप्रदं नन्दनपुरनाम प्रसिद्ध नगरम् । तत्रप्रतिहतप्रतिपक्षवलोऽरिमईनो नाम नृपतिरासीत् , तस्मिँश्च गुणरूपरत्ननिधानो रत्नाकराऽभिधेयः श्रेष्ठीन्यवसत, रूपगुणविभवैः साक्षालक्ष्मीरिवलक्ष्मी मतस्य भार्याचासीन , अनपत्यत्वाच्छेष्ठीमनासभूरिसंतापमकरोत् ।
अन्यदा लक्ष्मीः श्रेष्ठिनमुवाच, भर्तः १ अत्रैव नगरोद्यानेश्रीमदजितनाथमन्दिरद्वारे, अजितबलादेवीतिष्ठति, साऽपुत्रस्य पुत्रं, निर्धनस्य धनं, राज्यहीनस्य राज्यं, मूर्खस्य विद्या, दुःखितस्य सुखं, अन्धस्य नेत्रं, रोगिणश्चारोग्यं प्रयच्छति, तच्छत्वा श्रेष्ठिना-देव्या आराधनं विहितम् , तेन तस्य पुत्रलाभोजनि, तस्याऽजितसेनेत्यभिधानं तेन विनिर्मितम् ।, ततः श्रेष्ठी जिनधर्म विशेषतो भक्तिबमार, निजपितुमनोरथैः सहाजितसेनः प्रतिदिनं ववृधे, सच सर्वकलासु प्रवीणोऽभूत् , क्रमेण लावण्य सम्पदाऽऽट्यो यौवनाऽवस्था जगाम, तस्य समग्रलोकाधिकरूपादिगुणविभवान्विलोक्य श्रेष्ठी व्यचिन्तयत् , यद्यस्मत्पुत्रस्य गुणयोग्याभायो न मिलिष्यति तदा सर्वेगुणानिरर्थका भविष्यन्ति ।
यतः-सामी अविसेसन्नू, अविणीओ परियणोपरवसत्तं । भजाय अणणुरूवा, चत्तारि मणस्स समाई ॥१॥
तदानीमेकोवणिक्पुत्रस्तत्रसमाऽऽगतः श्रेष्टिनं प्रणम्य तदन्तिके सउपविष्टः श्रेष्ठिनाव्यापारवार्ताप्रष्टा, तेन सर्व वृत्तान्तं | तदने निवेदितम् , विशेषतस्तेन कथितं भवदाज्ञया कृतमङ्गला नगरीमहं प्रयातस्तत्र जिनदत्तश्रेष्ठिना सार्घ ममपरिचयो जाता, तेन भोजनायाऽहं निमन्त्रितः, तद्गृहे भोक्तुं गतेन मया तस्यैका कन्यका दृष्टा, चन्द्रवदना, परागहस्तचरणा,
१ अविशेषज्ञः स्वामी, अविनीतः परिजनः परवशत्वम् । भार्याचाननुरूपा, चत्वारि मनसः शल्यानि ॥ १ ॥
For Private And Persone n