________________
Shri Mahavir Jain Aradhana Kendra
श्री अजितसेन
शीलवती
चरितम् ।
॥१०२॥
**-***O*****O******O**O3
www.bbatirth.org
Acharya Shri Kassagarsun Gyanmandir
For Private And Personal Use Only
*****************O*****O*→
कानि स्वयंविलिख्यवाऽन्यैर्लेखयित्वा चोत्तमवसनादिभिर्वेष्टयित्वा सुगन्धितैर्धूपपुष्पादिभिः पूज्यन्ते तथैव ज्ञानपुस्तकानि प्रोन्नतस्थानेषु स्थापयित्वा तदग्रे सुस्वादूनि मनोहराणि विविधानि फलानि दीपप्रमुखानि पक्वान्नादीनि भावतोढौकनीयानि । यथाशक्ति तपश्चर्या च विधीयते इति साध्वीवचनं श्रुत्वा विनयावनता दुर्गातां पुनरत्रवीत् - पूज्यतमे ? ज्ञानसमाराधनतः किं फलमवाप्यते ? तद्ब्रूहि कृपांविधाय । साऽवदत्-दुर्गे ? ज्ञानस्यसमाराधनेन निर्मलमतिविधायकं विशुद्धज्ञानं समासाद्यते, शाश्वतं सौभाग्यञ्चप्राप्यते । सार्वज्ञं पदमपितेनैव लभ्यते । तनिशम्य दुर्गाबभाषे - भगवति १ ये घनाढ्या भाग्यवन्तो भवन्ति त एव जनाः सकलसामग्रीसत्त्वाद्धर्मकार्याणि साधयितुं समर्था भवन्ति, ज्ञानाराधनामपि त एव साधयितुं समर्था भवन्ति मादृशा धनहीनाः सदादास्यपद भाजः परान्नभोजिनः सामग्रीशून्यत्वात्कुतोज्ञानमाराधयन्ति ? ततः साध्वी प्रोवाच- दुर्गे ? निजशक्त्यनुसारेणदानं विधेयम्, तपश्चर्याऽपि यथाशक्ति विधेया, शीलव्रतमपि निजशक्तिबलेनैवानुष्ठेयम्, यदस्मिन्धर्मकर्मणि धनसाध्यसामय्याः किश्चिदपि प्रयोजनं न विद्यते, निजशक्तिसाध्यं चैतत्स्वाधीनं वर्त्तते । तस्मादस्मिन्त्रताचर - काऽपि चतिस्तवनास्ति, निजपरिणीत पुरुषमन्तराऽपरपुरुषसमागमः सर्वदा त्रिकरणशुद्ध्या हेयः । पर्ववासरेषु स्वपतिना सार्द्धमपि संगमो न विधेयः । एवंशीलत्रतपालनेतु दीनाऽदीनयोर्नास्ति विशेषः । केवलं मनः साध्यमेतद्वर्त्तते, इत्येतद्वचनं समाकर्य सादुर्गा दुर्गतिदायकः सर्वथा परपुरुषसंगमः पर्वतिथिषु स्वभर्तृसमागमश्च मयानविधेय इति साध्याः सनिधौ प्रत्याख्यानं जग्राह । ततः सा शुद्धशीलवतं सम्यक्त्वञ्च स्वीकृत्य साध्यवान्दत्वा निजगृहं समाययौ । वेश्मगता सा चिन्तयितुं लग्ना - बताद्यमेऽपूर्ववस्तुनः प्राप्तिः समजनि । तद्वृत्तान्तमभिन्नहृदयस्य भर्त्तुरप्रेमयाऽवश्यमेव निवेदनीयमितिविज्ञाय तथा ॥१०२॥
चतुर्थः
प्रस्तावः ।