________________
ShriMahavir JanArchanaKendra
Acha Sharing
भूय मित्रभयात्तेनसर्ववृत्तान्तन्तु निवेदितम् । पश्चात्तेनस्वचातुर्येण श्रेष्ठी भाषे-महेभ्य एवंविधमानन्दमहं स्वप्नावस्थायां प्रत्यहमनुभूयापि जाग्रदवस्थायां किमपिनापश्यम् । इति युक्तियुक्तंतदीयंवचनं श्रुत्वा चालचन्द्रोऽवदत्-चन्द्रसेन ! त्वंप्रतिवासरं मायदवोचस्तत्स्वमगतं वा साचादनुभूतम् ? सपोवाच-महेभ्य ? तत्सर्व स्वमविलसितमेव सत्यं कुतो भवेत् , ययेन दिवानिरीचितं श्रुतं वा भवेत् , तत्तेन नरेण स्वमगतं सर्व साचादनुभूतमिव विलोक्यते । ममाऽप्येतादृशंव्यसनपतितमस्ति । इत्थं चन्द्रसेनस्यव्यलीकंवचनं निशम्य बालचन्द्रो विच्छायवदनोनिजमनसिव्यचिन्तयत्-अहो । मयामूढेन मूर्खपदाचरितं केवलं पश्चात्तापाय सञ्जातमेतत् । विनाऽपराधेन मया कान्तायास्तिरस्कारो विहितः । सर्वसमृद्धिभाजनं गृहमपि प्रज्वालितम्, एतादृशं महानर्थप्रदकार्य मदन्यः कासमाचरति ? । इत्थं शोचमानः स स्वकीयश्वशुरस्याग्रे विलचीभूय विनम्राननस्तुष्णीं तस्थौ । ततस्तच्छशुरो विज्ञातवृत्तान्तस्तं बहुधोपालभ्यस्वनिकेतनं जगाम । अथ बालचन्द्रेण विज्ञातम्, इयमङ्गनासदाचारा मदनुवर्तिनी निष्कलङ्काविद्यते, अस्याश्चकिमपिषणं नास्त्येवेति जातप्रत्ययः स स्वकीयभार्या मेनावतीं पूर्ववत्संभाव्य गृहस्थाश्रमोचितानिकार्याणि शान्तवृत्या विदधे । चन्द्रसेनोऽपि निजोपार्जितधनं गृहीत्वा स्वस्थानं प्रययौ । इत्थं स्त्रीचरित्रवृत्तान्तं कथयित्वा चत्वारस्तेप्रधाना अरिमर्दनभूपालं पुनः प्राहुर-नरेन्द्र ! अनयामेनावत्या निजसहचरस्य रक्षणार्थ कीदृग्विधा युक्तिप्रपञ्चा विहिताः अतः सुधीभिः सर्वदा स्त्रीचरित्रेभ्यो दरतः स्थेयम् । यतः-मधुर भाषतेयोषिद्| हृदयंचरिकोपमम् । चिन्तयत्यन्यदेवासी, विदधात्यन्यदेव सा ॥ १॥ अतः सा समयंप्राप्य साहस कार्य न जहाति, स्त्रीणां प्रपश्चजालान्यनेकविधानिसन्तीतिविज्ञाय तासां वचने प्रत्ययः केनचित्पुरुषेण कदापि शुभमिच्छतानविधेयः ।।
For Private And Personlige Only