________________
ShriMahisvirJanArachanaKendra
Achana.hr
K
a
n Gyaan
प्रचिपाव, यदि भवता प्रचिप्ता एते तच्छिद्रगता अधिका भवन्ति तदाऽहं यावजीवं तव दास्यकर्मणि तिष्ठामि । यदि मम विजयः स्यात्तर्हि त्वदीयकण्ठस्थितो मौक्तिकहारस्त्वयामह्यं प्रदेयः । इति प्रतिज्ञा स्वीकृत्य तौ दम्पती प्रमुदितमानसौ मिथो भोजयन्तौ पर्यायेणे कैकं पिण्डं प्रक्षिपन्तौ कुशूलस्थितं चन्द्रसेनमपि भोजयतः । मेनावत्या प्रक्षिप्ताः पिण्डाः अधिकाः कुशूलच्छिद्रे न्यपतन् , बहिः पतितानपि पिण्डान्सा निजपतिदृष्टिं वश्वयित्वा चन्द्रसेनाय प्रादात् । एवं निजपाटवेन स्वकान्तस्य | चक्षुषोधूलिप्रपं विधायनिजेष्ट सहचरमपि प्रीणयामास । स्वकीयविजयेन स्वभकण्ठस्थितं हारमपि सा जग्राह । इत्यं क्रीडमानयोस्तयोः सूर्योऽपि वारुणी दिशं प्राप्यावे निममज । सान्ध्यं समय व्यतीत्य तौ दम्पती रजन्यां निद्रायमाणलोचनौ शयनभूमि प्राप्यसुषुपतुः । प्रभाते समुत्थाय मेनावती मधुरास्वादा रसवतीं विनिर्ममे । बालचन्द्रः स्वस्थीभूय निजभार्यया निष्पादितां रसवतीमास्वाधशान्तवृत्तिनिजापणमियाय । ततो निर्भयमानसा मेनावती चन्द्रसेनं कुशूलाबहिनिष्कास्य यथेच्छ भोजयित्वा तेनसह भोगविलासाननुभूय दीनारमेकेवितीर्य तं व्यसृजत् । अथ तृतीयस्मिन्दिने चन्द्रसेनो निजमित्रम्य बाल
चन्द्रस्य हट्टं जगाम । तेन चन्द्रसेनः पृष्टः-भो मित्र ? किमिदानीं न दृश्यते भवान् , ग्रामान्तरं गतवान् किम् ? तद्वचनं | समाकर्ण्य चन्द्रसेनोऽवदत्-मित्र ! अधुनात्वत्रैव तिष्ठामि, परन्तु परेधुर्यद्वृत्तान्तं जातं तस्य वर्णनं किं करोमि ! इत्यभिधाय * सर्व तद्वृत्तान्तं तस्मै व्यवहारिणे निवेदयामास । बालचन्द्रस्तच्छ्रुत्वा प्रदीप्तक्रोधानलेन प्रज्वलितहृदयो मन्त्रौषधिभ्यामुपहत+ सन्चो भुजङ्गम इवापशशाम । यतोऽसावदृष्टतत्कर्मत्त्वात्तमपि मनागुपालन्धुमसमर्थोऽभूत् । ततः स कियदिनानन्तरं निज
चेतसिव्यचिन्तयत्-रे दैव ! किं कर्मपुराकृतं मया, येनातिदुष्टा मिलितेयमङ्गना । गृहस्थितो जारनरो न गृह्यते, किमत्र
For Private And Personlige Only