________________
ShriMahavir JanArchanaKendra
Acharya:sha.KailassagarsunGvanmandir
पतिव्रताचारदर्शयन्ती भृशं विललाप-अधन्याऽहमप्यधुना देहमिमं न धारयिष्ये, प्रियपतौ दिवंगते किमत्रलोके मम जीवनेन ? पतिव्रतानामयमेव धर्मः समुपदिष्टः। तथा चोक्तम्-ज्योत्स्ना शशाङ्कस्य वृषस्यलक्ष्मी-'छाया शरीरस्य जलस्यमत्सी । यथावियोग सहते न जातु, सती न पत्युः सहते तथैव ।। १॥ निजपतिपथांनुसारिणी धर्मपत्नी भवेद् । ईदृशानि तदीयवचनानि सर्वेषांहृदयानि विदारयन्तिस्म । अहो ? कपटजालस्य कीदृशी मर्यादा विद्यते । सज्जनास्तां विलोकयन्तु । ततस्तत्र स्थिताः सर्वे जनाः शोकनिमनमानसास्तां विलपन्तीं पातालसुन्दरीं कथयामासुः-श्रेष्ठिनि ? त्वमकस्मान्मरणाभिमुखी किमर्थ जायसे ?-अद्यवाब्दशतान्तेवा मृत्यु प्राणिनां ध्रुवम् । तस्माद्धमार्थिना भाव्यं, धर्म एव सहायकृत् ॥१॥ देववशात्कालधर्म प्रयातस्तवपतिरिदानी तव सविधौ नागमिष्यति । देवतन्त्रितमिदं जगत्पराधीनं विद्धि । तस्माच्छमरसेन शोकाग्नि मन्दीकृत्यशान्ति भज । ततः सा च्छमभावेन किश्चिच्छोकभावंद्योतयन्ती निजदेवरं सुकण्ठनामानं तेषां प्रवहणानामधिपतिंचकार। स्वयमपिनिर्विघ्नतया तेन सायथेप्सितं सुखंबुभुजे। ततोऽज्यदा सुकण्ठः स्वचेतसिव्यचिन्तयत्-इमां दुष्टकर्मविधायिनी कुलाधिक, अनयादुष्टयाऽपराधशून्यो महाबुद्धिनिधानो मदीयभ्राता सार्थवाहः समुद्रमध्येपातितः । तथैवेयमधमा कस्मिन्नपि समये मामप्येतदीयां गतिं नेष्यति । धिगस्त्वस्या जीवितम् । अनयाऽधमया प्रथमं नृपतिः परित्यक्तः पश्चात्सार्थवाहोऽपि वञ्चितः, तस्मान्मन्येहं, मामपि परित्यज्य साऽन्यत्र गमिष्यति नात्र सन्देहः। न जाने किमन्यद्व्यलोकं सा करिष्यति ? इत्थं विचारयतस्तस्य सुकण्ठस्य चित्तं तस्यां विगतनेहमभूत् । तथापिनिजभ्रातृपत्नित्वात्तद्धयेनचतत्कथनानुसारेण कार्यवाहयति। पिशाचिनीवशं गत इव सुकण्ठः कतिचिद्दिनानि तयासह व्यनैषीत् । अथ जलधिपतितोऽनङ्गदेवो दैववशा
For Private And Personlige Only