________________
श्री
तृतीयः प्रस्तावः।
अजितसेन शीलवतीचरितम् ।
॥६३॥
माजगाम । वेदनामनुभवन्मुगुणसिंहस्तेनपूजकेन व्यलोकि, सदयः स पूजकः सत्वरं तत्समीपं गत्वा पप्रच्छ-हे भ्रातः ? कस्त्वमसि ? कस्मिनगरे निवससि ? इमां दुर्दशांकथं प्रयातोऽसि ? तदानीं कुमारोऽवदत्-प्रियवन्धो ! ममहस्तपादाद्यङ्गानि शत्रुभिर्बद्धानि, तस्मादहभृशं दुःखमनुभवामि, अतस्त्वं पूर्व बन्धनान्मां निर्मुक्तंकुरु, पश्चादहं मदीयं सर्व वृत्तान्तं त्वां निवेदयामि, दयार्द्रमानसः सपूजकस्तस्मिन्दयां विधाय तं निर्बन्धनीकृत्य व्रणबहुलं तच्छरीरश्चनिरीक्ष्यशुशोच-हे पथिक ? केनाऽधमेनत्वमीदृशीमवस्था प्रापितः ? ततस्तेन सुगुणसिंहेन निजवृत्तान्तं श्रावयित्वा निजवस्वाञ्चलादेकं रत्नं गृहीत्वा देवपूजकाय प्रदत्तं, पुनस्तेन कथितश्च-हे बन्धो! इदं रत्नममूल्यं विद्यते, अतः कस्यचिद्वयवहारिणः समनि तदुद्धारके मुक्त्वाधनं गृहीत्वाऽस्मात्स्थानान्मा त्वदीयमावासंनय, तद्धनव्ययेन ममाश्वासनंविधेहि, अहंतवोपकारं नविस्मरिष्यामि, यावदहं तवगृहे निवसामि तावद्भवद्गृहसम्बन्धिव्ययोऽपि तद्रत्नद्रव्येणैवविधातव्यः, इतिमद्विज्ञप्तिर्भवतास्वीक्रियताम् । इत्थं कुमारोक्तंचचनं निशम्य देवपूजकः प्रसन्नीभ्यस्वगृहंतंनीत्वासदोषधादिभिस्तस्यविविधर्चा परिचर्याव्यधात् । पृथग्गृहे च तं कुमारंन्यवासयत् । ततो यक्षपूजकस्तद्रत्नंगृहीत्वाविपण्यां प्रसिद्धिभाजस्तेजपालाख्यस्यव्यवहारिणोहहं गत्वा तद्नं मुस्वा सहस्रनिष्कान्कुसीदार्पणेनाग्रहीत् । ततोधनग्रन्थि समादायपूजको निजगृहमाजगाम । तेनधनव्ययेन तत्कृतैर्नानाविधोपचारैः कतिभिर्दिवसैः स्वस्थदेहोराजसूनुः समभृत् । ततः स कुमारोनिजाङ्गुलीयक निष्कास्य तस्मैपूजकाय दत्तचोवाच-इमारत्नोमिका विक्रीय तल्लन्धधनेन तेजपालमहेभ्यस्यगृहे ग्रहणकेमुक्तं यदस्माकं रत्नं तदानीयताम् । एवं सुगुणसिंहस्य वचनं स्वीकृत्य विपण्यां तां रत्नमुद्रिका विक्रीय तद्धनंलात्वा तेजपालस्य समीपंगत्वातमुवाच-महेभ्य ? भवतोवृङ्ख्यासहितं यद्रव्यं भवति तत्सर्व गृहीत्वाऽस्म
॥६३॥
For Private And Persone
ly