SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArachanaKendra Achah agarsun Gyaan प्रस्तावना. श्रीन अजितसेनशीलवती चरितम् ।। द्वेष्टि वाञ्छयत्यपि न, नालिकेरद्वीपवासिनो यथा नालिकेरोपजीविनो धान्यं नाऽपेक्षन्ते तथैव विमध्यमा मोक्षधर्म उदासते," यो धर्माऽर्थकाममोक्षेतिपुरुषार्थचतुष्टयं मनुते, परमतत्त्वं मोक्षमेव जानाति, मोक्षप्राप्त्यै भृशमुत्कण्ठते, तथाऽपि प्रौढसत्त्वाऽभावात्तादृशप्रतिबन्धकसत्त्वाच मोहपाशपतितो गृहस्थधर्म पालयन धर्माऽर्थकामान् यथाई साधयति स मध्यमः" | " यो मोक्षायैव सततं यतते, क्रोधादिकषायाँश्वविजेतुमजलंयो यतते, यस्य मानसं भृशं वैराग्यरंगेण रञ्जितं स मुनिवरस्त्यक्तकाञ्चनकामिन्यादिपरिवारः संसारविरक्तः उत्तमोभिधीयते"। " सकलकर्मविनिर्मुक्तः संसारमहार्णवपारगामी केवलज्ञानेन समस्तलोकालोकंकरतलाऽऽमलकवद्विलोकमानो यः पूर्णब्रह्मस्वरूपं प्रकाशते स वीतराग उत्तमोत्तमः प्रचक्ष्यते "। तथैव मनुष्यजातेः षविधत्वं संक्षेपतः प्रादर्शि-भगवता श्रीमदुमास्वातिना तत्त्वार्थकारिकासु यथा "कर्माऽहितमिह चामु-त्र चाऽधमतमो नर समारभते । इह फलमेवत्वधमो, विमध्यमस्तूभयफलार्थम् ॥१॥" “ परलोकहितायैव, प्रवर्तते मध्यमः क्रियासु सदा । मोचायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः ॥२॥" “ यस्तु कृतार्थोऽप्युत्तम-मवाप्य धर्म परेभ्य उपदिशति । नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ॥ ३॥" अस्याऽजितसेनशीलवतीचरित्रस्य संक्षेपार्थः श्रीमच्छतार्थिसोमप्रभाऽचार्यकृतकथानकाऽनुसारेणैतद्ग्रन्थान्ते नियोजितः, तदवलोकनेनैतद्ग्रन्थगतमाधुर्यगौरवमवभोत्स्यते जिज्ञासुभिः, अन्थश्चायं चतुर्मिः प्रस्तावैर्विरचितः, एतदुझेखो विबुधजनानां प्रमोददायको भवत्विति बुद्धया व्यरचि, रसमाधुर्यताश्चास्य ग्रन्थस्य विलोकयितारः स्वयमेव ज्ञास्यन्ती-ति सूतमतिविस्तरेण, एत ॥४ ॥ For Private And Personlige Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy