________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१
श्री अजितजिन चैत्यवंदना जयाजित जिनाधीश योगीन्द्र यतिजीवन । जगज्जंगमकल्पद्रोयोतिर्मय निरंजन ॥१॥ रागादिविजिताज्ञान सुरैः साम्यं वदस्तव । सर्वज्ञ क्षीणदोषस्य हास्यं स्यात्कस्य नो जडः ॥२।। राजरंकार्कखद्योत क्षीरक्षा मितद्रवत् । अहंस्तव रोदीना मंतरं हि महत्तरं ॥३॥ किला खलाअमी दोषास्त्वया निर्वासिताः प्रभो । शिश्रियुः परतीर्थेशान् रिपवोऽन्यनृपानिव ॥४॥ तेऽपि तत् प्रेरणाभूढा बिभ्राणास्वयि मत्सरं । बंभ्रम्यते भवाटव्यां द्वेषो दुःखाय यत् प्रभो ॥५।। निग्रहानुग्रहाद्याये परेर्गुण तयोदिताः दोषत्वात्त त्वया त्यक्ताः सूक्ष्मदक् ते तदद्भुता ॥६॥ रागाद्युपझं विज्ञाय भवभ्रम पराभवं । तत्त्यागाय तवोपास्तिं सदा धन्या वितन्वते ॥७॥ तव वाक्यानि तानि यौः श्रुतिमागतैः । दोषाः खलु विलीयंते हिमानोबार्कर रश्मिभिः ॥८॥ अमंदानंदपोषाय निर्दोषाय सुखात्मने । भवतेऽतिशयामेय विजयाय नमो नमः ॥९॥
For Private And Personal Use Only