________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(द्रतविलम्बितवृतम्)
कुशल-कानन-पुष्टि-बलाङ्गकम् । भवदवानल-शान्ति बलाहकम् ।। अजिततीर्थपतिं श्रितवत्सलं । भजत भव्यजना ! विगतच्छलम् ॥१॥ विमल- केवलबोध- कलाधरं । भविक -लोक- चकोर- कलाधरम् ॥ करिवराङ्कित-पादपयोरुहं । नम जिन जितशत्रुतनूरुहम ॥२॥ विजयिनी जननी ननु गर्भगे। व्यजनि यत्र बुधैः सदिदं जगे ॥ मृगपतौ सबलेऽन्तरमाश्रिते । गिरिगुहा किल कैः परिभूयते ॥३॥ अपि गदा-युध-चक्रि-पुरंदरस्थिर- पराक्रम- भङ्ग-करः स्मरः । सुकृतिभिः किल यस्य जगत्पतेझटिति नामबलादपि-जीयते ॥४॥ सततमक्षय मोक्षपदं श्रितः । स्फुरदनन्त चतुष्टय-शोभितः ॥ अजिततीर्थ करो मम मङ्गलं । दिशतु शाश्वत सौख्यमल फलम् ॥५॥
For Private And Personal Use Only