________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६) पुद्गलजडभोगेषु, सुखं स्वेन प्रकल्प्यते। मिथ्यात्वबुद्धियोगेन, सुखं स्वाऽऽत्मनि निश्चयात्॥११॥ जडपुद्गलभोगेभ्यो, जायते न सुखं ध्रुवम् । श्रात्मगुणः सुखं चास्ति, जडानां न गुणः सुखम् ॥११॥ पारोपितं मयि व्यक्त, मन्य मिथ्यात्वबुद्धितः ततो भिन्नं निजाऽऽत्मानं, मन्ये समाधिमानहम् ॥१९ सर्वविकल्पसंकल्प, त्यागेनाऽऽत्मा समाधिमान् । स्वेनानुभूयते स्वस्मि, नित्येवं निर्विकल्पकः ॥११३॥ ब्रह्मजीवनतोजीव !!, प्राणादेर्जीवनाच्च किम् । अनन्तं जीवनं तेऽस्ति, तत्स्वयं न क्षयोऽस्ति ते ॥११॥ श्रात्मशुद्धोपयोगेन, समाधिर्वर्तते सदा । जीवनाऽऽत्मा विदेहोऽपि, समाधिसुखमश्नुते॥११५॥ सोऽहमाऽऽत्मा मया प्रोक्तः, समाधिः स्वसमाधिना । समाधिं यान्तु सल्लोकाः, सत्यं सुखं च मङ्गलम् ॥११६॥ अष्टोत्तरशतैः श्लोकै,-रात्मसमाधिसंज्ञकः। कृतो ग्रन्थः समाध्यर्थ, बुद्धिसागरसूरिणा ॥११७॥ भारते गुर्जरे देशे, पेथापुरे च भावतः । चातुर्मास्यां कृतोग्रन्थः शान्तिसमाधिशर्मदः॥११८॥ खसिद्धिनिधिचन्द्राङ्के वैक्रमाब्दे च वत्सरे । श्रावणशुक्लसप्तम्यां, गुरौ ग्रन्थः कृतो मया ॥११॥
For Private And Personal Use Only