________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५२) समत्वं यस्य संजातं, तस्य किं त्यागतः खलु । समाऽऽत्मनस्तपस्त्याग,-क्रियादे ने प्रयोजनम् ॥५१०॥ ज्ञानवैराग्यसत्प्रीत्या, निःसंगत्वं प्रजायते ।। समत्वं जायते सत्यं, ततो मोक्षः प्रजायते ॥५११॥ बन्धोमोक्षोऽस्ति चित्तेन,-बाह्ये किञ्चिन्न जानत । न च बन्धोन मोक्षोऽस्ति, जाते शुद्धे निजाऽऽत्मनि५१२ विज्ञेयः परमाऽऽत्मा स, बन्धे मोक्षे च यः समी। विज्ञेयः स च संसारी, बन्धे मोक्षे न यः समी॥५१३॥ इत्येवमाऽऽत्मबोधस्य, बीजं सद्गुरुसेवनम् । सर्वोपायेषु मुख्यं त,-त्सद्गुरोः पादसेवनम् ॥५१४॥ परस्परोपकारेषु, विश्वस्थसर्वदेहिनाम् । स्वाभाविकप्रवृत्तिर्हि, देहादेर्जीवनाय च ॥ ५१५॥
आत्मार्थमन्यलोकानां, हितार्थं मुक्तिकांक्षिणाम् । निर्मलाऽध्याऽऽत्मगीतेयं,कृता विश्वोपकारिणी॥ ५१६॥ खसिद्धिनिधिचन्द्राड़े, वैक्रमाब्दे हि वत्सरे । श्रावणशुक्लपञ्चम्यां, प्रहराये कुजे दिने ॥५१७ ॥ पेथापुरे स्थितिं कृत्वा, ज्ञानवैराग्यभावतः । रचिताऽध्याऽऽत्मगीतेयं, बुद्धिसागरसूरिणा ॥५१८॥ पञ्चशताधिकैः पद्यैः, ग्रन्थोऽयमुपकारकः । प्राचन्द्रार्कमही याव,-नन्दतु विश्वबोधकः ॥५१६ ॥
For Private And Personal Use Only