________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
( ४४ )
3
अन्य दर्शनधर्मेषु यत्सत्यं च प्रदृश्यते । तत्सत्यं जैनधर्मस्य, - ज्ञेयं सापेक्षदृष्टितः ॥ ४३० ॥ सर्वनयादिसापेक्ष - दृष्ट्या मध्यस्थदेहिनाम् । सद्देवगुरुधर्माणां श्रद्धा ज्ञानं प्रकाशते ॥ ४३१ ॥ आत्मैव सद्गुरुर्देवो, धर्मश्च निश्चयात्स्वयम् । यस्याSSत्मा सद्गुरुर्जात, स्तस्याऽऽत्मा जायते प्रभुः। ४३२ ॥ श्रात्माधीना भवेद्यस्य, प्रकृतिस्तस्य वेगतः । श्रात्मोन्नतिर्भवेत्स्पष्टा, ज्ञानं सुखं च वर्द्धते ॥ ४३३ ॥ प्रकृतियोगमालम्ब्य ज्ञानानन्दस्य रूपकम् । प्रकाशन्ते निजाSSत्मानं, जनाआत्मपरायणाः || ४३४ || श्रात्मनो न विकाशोऽस्ति, कदाचित्प्रकृतिं विना । प्रकृतिस्थोऽपि निःसङ्गो, ज्ञानी भवति केवली ॥ ४३५॥ प्रकृतिर्ज्ञेयरूपाऽस्ति, चाऽऽत्मा ज्ञानस्य रूपवान् । आत्मा तु प्रकृतिं वेत्ति, प्रकृति र्न च चेतनम् ||४३६ ॥ प्रकृतिनायकः स्वाऽऽत्मा, प्रकृति र्हि जडं जगत् । आत्मा प्रकृतिकार्याणां - कर्ताऽपि चाक्रियः स्वयम् । ४३७| प्रकृतिसर्वकार्येषु, साच्याSSत्मा हि भवेद्यदा । तदामा प्रकृतेर्योगा, - न्निर्बन्धः सक्रियोऽपि वै ॥ ४३८ ॥ असंख्यात प्रदेशोऽह, - मात्मा विश्वप्रभु विभुः । अनादिकालतो बन्ध, - स्तस्य प्रकृतियोगतः ॥४३६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only