________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आदौ विषमदृष्टान्तैः कथम रूपिणां भवेत् । रूपिणां प्रतिबिम्बश्च कथमरूपिणां भवेत् ॥ २४ ॥ पुद्गलप्रतिबिम्बन्तु दृष्टान्तश्चन्द्रमा जले। अरूपिवस्तुजीवेऽस्ति प्रतिबिम्बन्तु ते भ्रमः ॥२४१ ॥ त्वं प्रतिबिम्बकं विद्धि भिन्नं हि प्रतिबिम्बतः ।। प्रतिबिम्बकभावेन प्रतिबिम्बञ्च खेदितम् ॥ २४२ ॥ प्रतिबिम्बस्य चन्द्रस्य भिन्नत्वमेव वर्तते । कथं साध्यस्य सिद्धिः स्या-देक एवाऽस्ति ब्रह्मराद् ॥२४३॥ व्यापकैकात्मनो नांशा भवन्ति जीवराशयः । भिन्नाभिन्नैश्च जीवांशै- आत्मा न दृश्यते ॥२४४ ॥
आत्मैक्येन तु सर्वेषां युगपत्सुखदुःखता । सुखदुःखसमाच्छादा द्रुतं जडचिदात्मनोः ॥२४५ ॥ घटाकाशाभिधोपाधे-श्रेझेदो नमसो मतः । नात्र तथा विधोपाधि वारकः सुखदुःखयोः ॥ २४६ ॥ समकालं सुखं दुःखं प्रतिभासेत देहिनाम् । अधिकन्यूनसम्प्राप्ते-रवकाशो न सम्मिलेत् ॥ २४७ ॥ नावकाशं मिलेत्तस्य कारणं किं प्रवर्तते । मिनं भिन्नं विनाऽऽत्मानं घटते कोऽपि नाऽपरः ॥ २४८॥ सर्वे हि व्यक्तितो भिन्नाः सर्व एकस्तु सत्तया । मात्मतत्त्वाऽवबोधेन चैकोऽनेकः प्रवेद्यताम् ॥ २४६ ॥ सर्वत्र व्यापकोक्तौ तु काऽपि युक्ति ने विद्यते । ज्ञेयं सम्मतितकाख्ये ग्रन्थे दृष्ट्वा मयोच्यते ॥२५० ।। सर्वत्र व्यापक श्चेत्सः पिण्डे तद्वध्यते कथम् ।। देहेषु व्यापकश्चेत्स्यात्तदाऽव्यापक एव सः ॥ २५१ ॥
For Private And Personal Use Only