________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यात्मगीता.
"
प्रणम्य श्रीमहावीरं ज्ञानानन्दमयं परम् । करोम्यध्याSSत्मनो गीतां, स्वपरानन्दहेतवे
॥ १ ॥
आत्मनः शुद्धिकार्यार्थ - माऽऽत्मज्ञानं तथा क्रिया । उक्ता सद्भिर्विवेकेन, तदध्याऽऽत्मं विजानत ॥ २ ॥ ज्ञानानन्दस्वरूपोऽय - मात्माऽऽस्मि विश्वशाश्वतः ॥ कर्म संग्यप्यकर्माऽहं सर्वदुःखविवर्जितः ॥ ३ ॥ श्रात्मस्वभावः सज्ज्ञानं, सुखं पूर्णमतीन्द्रियम् । श्रात्मानमन्तरा सर्वं, जडं भिन्नं विचारय ॥ ४ ॥ श्रात्मशुद्धस्वभावो य, श्रात्मधर्मो निजाऽऽत्मनि । ज्ञात्वैवं ब्रह्मरूपं स्वं व्यक्तं कुरुष्व भावतः ॥ ५ ॥ श्रात्मोपयोगतः स्वाऽऽत्मा, द्रष्टव्यो हि प्रतिक्षणम् । मोहदृष्टिं परित्यज्य, स्वात्मन्येव स्थिरो भव ॥ ६ ॥ जन्ममृत्युजराद्या ये अशुद्धाः पर्यवाश्च ते ।
भिन्नाः शुद्धाऽऽत्मनो ज्ञेया, स्तत्र स्वत्त्वं न किञ्चन ॥७॥ ॥ सुखमाऽऽत्मस्वभावोऽस्ति, दुःखं मोहस्यवृत्तिषु । मोहरूपं मनोदुःखं, ज्ञात्वाऽऽत्मनि रतिं कुरु ॥ ८ ॥ संकल्पवर्जितं ब्रह्म, विकल्पवर्जितं स्थिरम् । निष्क्रियं चिद्धनं शुद्धं, त्वमेवाऽऽत्मा स्वभावतः ॥ ६ ॥
For Private And Personal Use Only