________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहीत्वा पुद्गलाऽऽस्वादं रममाणश्च तैः सह ।। विष्ठाकीट इवाऽसौ तु पापं कर्म दधाति च ॥१८॥ व्यस्मरच स्वयं भ्रान्त्वा रूपं निश्चलमात्मनः। अशुद्धपरिणामेन भवकूपेऽहमापतम् ॥१०६ ॥ चेत चेत झटित्यात्मन् !! शुद्धरूपं निभालय । एतत्संसाररूपं तु मायाजालं स्फुटं तव ॥११० ॥ इदानी भ्रान्ति मुत्सृज्य स्वान्तदृष्ट्या विलोकय । अन्तर्दृष्ट्या निजालोके गुणसृष्टिः प्रकाशते ॥ १११ ॥ तिरोभावनिजीना-माविर्भावः प्रकाशनम् । परमात्मपदं तत्तु तत्पदस्याऽस्मि किंकरः ॥११२ ।। तत्पदं येन विज्ञातं ध्यानं तत्राऽस्ति यस्य च । धृतं साधुपदं तेन शुद्धज्ञानं च तस्य हि ॥११३ ॥ तत्पदानुपयोगेन यो याति व्यवहारतः । तैलयंत्रवृषस्येव संसारो नैव नश्यति ॥११४॥ हयात्रवरसज्ञानैः काव्यं कुर्यादनेकशः। तत्पदानुपयोगेन भश्मनीव घृतद्रवः ॥११५ ॥ ददाति नरकं तर्को यस्यात्मज्ञान मस्ति न । शब्दशास्त्रात्सुसंभिनं गुणवदात्मनः पदम् ॥११६ ॥ पौराणिक कथा वक्ति चारणाश्चित्तरञ्जकाः। वादं कुर्वन्त्यजाजीवा सर्व धर्म विना वृथा ॥११७ ॥ प्रात्मभानं न चे चित्ते क्रियाकाण्डो न मुक्तिदः। आत्मोपयोगिसाधूनां धर्मकर्मगुणाकरः ॥११८॥ आत्मोपयोगिसाधूनां क्रिया सद्गुण धाम हि । मतहठातिमनानां दुःखधामाखिलक्रियाः ॥११६ ॥
सारतः ।
For Private And Personal Use Only