SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अस्थादनादिकालेन स्थास्यत्यनन्तकालतः । नित्यानित्यत्वतो रूपि-द्रव्यं निर्णीयते सदा ॥ ८४ ॥ ये घटाद्या निरीक्ष्यन्ते तान्सर्वान्विद्धि पुद्गलान् । ते भिन्ना प्रात्मतः सन्ति शास्त्रवाक्यैः प्रमाणय ॥ ८५ ।। विशन्पुद्गलदेशेषु चेतनः कर्मवेष्ठितः । । खीकुर्वन्तन्ममत्वं तु-मारं मारं स दैन्यवान् ।। ८६ ॥ कृतेषु कोटयुपायेषु पृथ्वी कस्याऽपि नाऽभवत् । लक्षोपायविधानेऽपि नभः कैश्चिन्न गृह्यते ॥ ८७ ॥ कृत्रिमं पौद्गलं वस्तु गृहदुर्गपणादिकम् । स्वर्ण रौप्यं धनं सर्व पुद्गलक्रीडनं खलु ॥८८ ।। पुद्गलानां सदा द्रष्टा ज्ञाता च सुखदुःखयोः । पुद्रलेष्ववसत्सोऽय मात्मा सर्वगुणालयः ॥ ८६ ॥ पुद्गला ये निरीक्ष्यन्ते तेभ्यो भिन्नोऽस्ति चेतनः। चेतनः कर्मणां कर्ता, यदाऽन्यपरिणामवान् ॥ १० ॥ आत्माऽसंख्यप्रदेशोऽस्ति तस्य प्रतिप्रदेशकम् । ज्ञानानन्त्यं जिना ऊचुः सत्पर्यायं विजानत ॥३१॥ द्वौ भेदावुपयोगस्य सामान्येन विशेषतः। असंख्यातप्रदेशेभ्यो भोक्ताऽस्ति स्वगुणस्य च ॥१२॥ अनन्ताऽस्तित्वधर्माणां भोक्ताऽस्ति स्वात्मराडयम् । अनन्ता नास्तिधर्माश्च प्रतिक्षणं भवन्ति ते ॥ १३ ॥ शुक्लात्मप्रदेशोऽस्ति समतारसवारिधिः । आत्मा स्वगुणकर्ताऽस्ति स्वस्मिन्शुद्धनयेन च ॥ ६४ ॥ तत्पदेशेषु वासेन साम्यसंगे विहारतः । उच्छलन्ति सदानन्द-वीचयः सुखसागरे ॥६५॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy