________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनाचार्य बुद्धिसागरसूरिकृत--
परमात्मदर्शनम् । कल्पद्रु जङ्गम स्तीथ सत्यदेवोऽस्ति सद्गुरुः । सेवे भावेन तं वाचा कायेन मनसा तथा ॥ १ ॥ वेत्त्यात्मानं निजात्मैव, ज्ञायकः कोऽपि नाऽपरः। ज्ञाता स एक आत्मैव नित्यत्वेन प्रवर्तते ।। २ ।। स्वयमात्मनि मासि त्वं त्वदीयं त्वयि वर्ततेकिं विधत्से ममेति त्वं पराशां हृदि धारयन् ॥ ३ ॥ विलोक्यात्मस्वरूपं हि ज्ञातं पुद्गलखेलनम् ।
आत्मा पृथक् च तेभ्योऽस्ति चिदानन्दो गुणाकरः ॥४॥ ध्यानेन यत्र पश्यामि स्थिरं सर्व स्वरूपतः । स्वप्नोऽभून्मित्रशत्रू च गताऽनादिकुपीडना ॥५॥ परत्राऽहं धियं कृत्वा बद्धो जातः परत्र हि । आत्मन्यहमति श्वेत्स्या-त्तक लिप्तो भवाम्यहम् ॥६॥ आत्मा जडैः सहाऽनादि-कालात्परिणतिं गतः । अशुद्धः परिणम्याऽसौ नाट्यरंगं करोति च ॥ ७ ॥ स्वस्याऽज्ञानेन दुखानि, विविधानि स लब्धवान् । स्वपदज्ञानतः पश्चात् सिद्धो हि भगवानभूत् ।। ८॥ मया यस्माद्गुरो होतो निज आत्मा सुखप्रदः । भावेन वाङ्मनःकायै नौमि गुरोः पदोर्युगम् ॥ ६ ॥ न कोऽपि भवदुःखानां हर्ताऽस्ति सद्गुरुं विना । वन्दे तं सद्गुरुं नित्यं साफल्यं जन्मनो भवेत् ॥ १० ॥ साध्यसाधनसापेक्ष आचारं यश्च पालयेत् । जयनरागमदक्रोधास्तजन्म सफलं भवेत् ।। ११ ॥
For Private And Personal Use Only