SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्रा राजा च रंकश्च सर्व नाटय मिदं जगत् । नात्र ते ममतांशोऽपि पुद्गलममतां त्यज ॥ १८३ ॥ सर्वस्मात्त्वं महाश्रेष्ठ स्तव दास इदं जगत् । आशादासीवशे कृत्वा ध्याने वासं सदा कुरु ॥१८४॥ धर्माधर्मवियत्काल,-पुद्गलान्चिन्तयाधुना । तेभ्यस्त्वं सर्वदा भिन्नः कालेनाऽनादिना तथा ॥१८५॥ भूत्वाऽन्यपरिणामी त्वं पुद्गलेऽनादिकालतः। कृत्वाऽज्ञानं च मिथ्या स्वं शक्तिमेव व्यनाशयः॥१८६॥ पुद्गलो न हि ते मित्रं तस्य संगे न ते सुखम् । एकत्वेन सुखं तेऽस्ति दु:खं तु मोहभावतः ॥१८७॥ मोहेनाहो निजात्माऽयं बद्धो भवति पुद्गलैः। दुःखोपायं तु वेत्त्यात्मा विदन्ति नच पुद्गलाः॥१८८॥ स्वस्मिन्मिलन्ति दुग्धाम्बु-वत्सातासातपुद्गलाः। श्रात्मा परग्रही भूत्वा सुखंदुःखं समश्नुते ॥ १८९ ॥ बाह्यस्य परिणामेन भवेद्वन्धो निजात्मनः । बाह्यदृष्टि भवनात्मा स्वयमन्धः प्रजायते ॥ १६०॥ अन्तर्दृष्टिं च कुर्वाण अात्माऽऽत्मानमवेक्षते । बद्धो भवति नात्माऽयमानन्दः स्वस्वभावतः ॥१९१॥ मात्माऽसंख्यप्रदेशेन, स्वयमेव प्रकाशते । द्वयोपयोगतश्चात्मा शुद्धसिद्धश्च शाश्वतः ॥१६२॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy